________________
पद्मपुराणम् ।।
३१२
त्रयोदशं धर्व ॥
निर्बुद्धिर्कोद्रवानुप्त्वा शालीन् प्रार्थससे वृथा । कर्मणामुचितं तेषां जायते प्राणिनां फलं ।। ६८ ।। क्षीणं पुराकृतं कर्म तव भोगस्य साधनं । हेतुना न विना कार्य भवतीति किमद्भुतं ॥ ६९ ॥ निमित्तमात्रमेतस्मिन् रावणस्ते पराभवे । जन्मन्यत्रैव यत्कर्म कृतं तेनैव लंभितं ।। ७० ।। किं न स्मरसि यत्पूर्व क्रीडता दुर्नयं कृतं । ऐश्वर्यजनितो भ्रष्टो मद्स्ते स्मर सांप्रतं ॥ ७१ ॥ चिरवृत्ततया बुद्धौ वृत्तांतस्ते त्वयाकृतः । नारोहति यतस्तस्माच्छृण्वैकाग्रचेतसा ॥ ७२ ॥ अरिंजयपुरे चह्निवेगाख्यः खेचरोऽभवत् । स्वयंवरार्थमहल्यां चक्रे वेगवतीसुतां ॥ ७३ ॥ तत्र विद्याधराः सर्वे यथाविभवशोभिताः । समागताः परित्यज्य श्रेण्यामत्यंतमुत्सुकाः ॥ ७४ ॥ भवानपि गतस्तत्र युक्तः परमसंपदा | अन्यश्चानंदमालाख्य चंद्रावर्त पुराधिपः ॥ ७५ ॥ संत्यज्य खेचरान् सर्वान् पूर्वकर्मानुभावतः । कन्ययानंदमालोऽसौ वृतः सर्वांगकांतया ॥ ७६ ॥ परिणीय सतां भोगान्प्राप चिंतित सँगता । यथामराधिपः स्वर्गे प्रतिवासरवर्द्धिनः ॥ ७७ ॥ ततः प्रभृति कोपेन त्वमीयों येन भूरिणा । गृहीतो वैरितामस्य संप्राप्तोति गरीयसीं ॥ ७८ ॥ ततोऽस्य सहसा बुद्धिरियं जाता स्वकर्मतः । देहोयमध्रुवः किंचित्कृत्यमेतेन नो मम ॥ ७९ ॥ तपः करोमि संसारदुःखं येन विनश्यति । का वा भोगेषु प्रत्याशा विप्रलंभनकारिषु ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org