SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रयोदशं पर्व। चतुर्गतिगतानेकयोनिदुःखमहावने । भ्राम्यन् , शिखापदाभिख्ये नगरे मानुषीं गतिं ॥ ५५ ॥ प्राप्तो जीवं कुले जातो दरिद्रस्त्रैणसंगतः । कुलंकांतेति विभ्राणो नामार्थेन समागतं ॥ ५६ ॥ सा चिल्लाचिपिटाव्याधिशतसंकुलविग्रहा । कथंचित्कर्मसंयोगाल्लोकोच्छिष्टेन जीविता ।। ५७ ॥ दुश्चेला दुर्भगा रूक्षा स्फुटितांगा कुमूर्धजा | उत्त्रास्यमाना लेकेन लेभे सा शर्म न कचित् ५८ मुहूर्त परिवान्नं शरीरं च सुमानसा । जाता किंपुरुषस्य स्त्री क्षीरधारेति नामतः ॥ ५९॥ च्युता च रत्ननगरे धरणीगोमुखाख्ययोः । विभ्रत्सहस्रभागाख्यां तनयोभूत्कुटुंबिनोः ॥ ६०॥ लब्ध्वा परमसम्यक्त्वमणुव्रतसमन्वितः। पंचतां प्राप्य शुक्राढे जातो विबुधसत्तमः ॥ ६१॥ च्युतो महाविदेहेऽथ नगरे रत्नसंचये । गुणवल्यां मणोर्जातोऽमात्यात्सामंतवर्द्धनः ॥ ६२॥ निष्क्रांतो विभुना साधं महाव्रतधरोऽभवत् । अतितीव्रतपा नित्यं तत्वार्थगतमानसः ॥ ६३ ॥ परीषहगणस्यालं पोढा निर्मलदर्शनः । कषायरहितः प्रेत्य परं ग्रैवेयकं गतः ॥ ६४ ॥ अहमिंद्रपरं सौख्यं तत्र भुक्त्वा चिरं च्युतः । जातो हृदयसुंदर्या सहस्राराख्यखेचरात् ॥ ६५ ॥ पूर्वाभ्यासेन शक्रस्य सुखे संसक्तमानसः । इंद्रस्त्वं खेचराधीशो नगरे रथनूपुरे ॥ ६६ ॥ स त्वमिंद्र विषण्णः किं वृथैव परितप्यसे । विद्याधिको जितोस्मीति वहन्नात्मन्यनादरं ॥६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy