________________
पद्मपुराणम् ।
त्रयोदश पर्व । अथवा कर्मणामेतद्वैचित्र्यं कोन्यथा नरः । कर्तुं शक्नोति तेषां हि सर्वमन्यद्वलाधरं ॥ ४२ ॥ नूनं पुराकृतं कर्म भोगसंपादनक्षमं । परिक्षयं मम प्राप्तं येनैषा वर्तते दशा ॥ ४३ ॥ वरं समर एवास्मिन्मृतः स्याच्छत्रुसंकटे । नाकीर्तिर्यत्र जायेत सर्वविष्टपगामिनी ॥ ४४ ॥ चरणं शिरसि न्यस्य शत्रुणां येन जीवितं । शत्रुणानुमतां सोहं सेवे लक्ष्मी कथं हरिः॥ ४५ ॥ परित्यज्य सुखे तस्मादभिलाषं भवेद्भुवि । निश्रेयसः पदप्राप्तिकारणानि भजाम्यहं ॥ ४६ ॥ रावणो मे महाबंधुरागतः शत्रुवेषभृत् । येनासारसुखास्वादसक्तोऽस्मि परिबोधितः ॥ ४७ ॥ अत्रांतरे मुनिः प्राप्तो नाम्नानिर्वाणसंगमः । विहरन् कापि योग्यानि स्थानानि गुणवाससा ४८ सहसा व्रजतस्तस्य गतिस्तंभमुपागता । प्राणिधाय ततश्चक्षुरधोऽसौ चैत्यमैक्षत ॥ ४९॥ प्रत्यक्षज्ञानसंपन्नस्तस्मिश्च जिनपुंगवं । वंदितु नभसैः शीघ्रमवतीर्णो महायतिः॥ ५० ॥ संतोषेण च शक्रेण कृताभ्युत्थानपूजनं । चक्रे जिननमस्कारं विधिना यतिसत्तमः ॥ ५१ ॥ आसीनस्य ततो जो वंदित्वा चरणौ मुनेः । पुरा स्थित्वा हरिश्चक्रे चिरमात्मनिगर्हणं ॥५२॥ सर्वसंसारवृत्तांतवेदनात्यंतकोविदैः । मुनिना परमैक्यैिः परिसांत्वनमाहृतः॥५३॥ अपृच्छत्स भवं पूर्वमात्मनो मुनिपुंगवं । स चेत्यकथयत्तस्मै गुणग्रामविभूषितः ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org