________________
मद्मपुराणम् ।
त्रयोदशं पर्व। अशक्ताः स्वभुवं त्यक्तुं तत्र नो मित्रवांधवाः । चातका इव सोत्कंठास्तिष्ठत्यध्वावलोकिनः २९ कुलक्रमसमायातां सेवमानो गुणालयः । लंकां यासि परां प्रीतिं जन्मभूमिः किमुच्यतां ॥३०॥ तस्मात्तामेव गच्छामो महाभागो भवावनि । देवानांप्रिय निर्विघ्नं रक्षता वनं चिरं ॥ ३१ ॥ इत्युक्त्वानुगतो दूरं कैलाशक्षोभकारिणा । सहस्रारो गतः सेंद्रो लोकपालैः समं गिरिं ॥ ३२ ॥ यथास्वं च स्थिताः सर्वे पूर्ववल्लोकपालिनः । भंगादसारतां प्राप्ताश्चलयंत्रमया इव ॥ ३३ ॥ विजयाधेजलोकेन दृश्यमाना महात्रपाः । नाज्ञासिषुः क गच्छाम इति भोगद्विषः सुराः॥३४॥ इंद्रोऽपि न पुरे प्रीतिं लेभे नोद्यानभूमिषु । न दीर्घिकासु राजीवरजःपिंजरवारिषु ॥ ३५ ॥ न दृष्टिमपि कांतासु चक्रे प्रगुणवर्तिनीं । तनौ तु संकथा कैव पानिर्भरचेतसः ॥ ३६ ।। अथाप्युद्विजमानस्य तस्य लोकोनुवतेनं । चकारान्यकथासंगैः कुर्वन् भंगस्य विस्मृति ॥ ३७॥ अथैकस्तंभमूर्धस्थे स्वसमांतरवर्तिनि । गंधमादनशृंगामे स्थितो जिनवरालये ॥ ३८ ॥ . बुधैः परिवृतो दध्याविति शको निरादरं । वदन्नंगं गतच्छायं स्मरन् भंगमनारतं ॥ ३९ ॥ धिग्विद्यागोचरैश्वयं विलीनं यदिति क्षणात् । शारदानामिवान्दानां बंदमत्यंतमुन्नतं ॥४०॥ तानि शस्त्राणि ते नागास्ते भटास्ते तुरंगमाः । सर्वं तृणसमं जातं मम पूर्व कृताद्भुतं ।।१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org