________________
पद्मपुराणम् ॥
त्रयोदशं पर्व ।
पुण्यवानस्मि यत्पूज्यो ददाति मम शासनं । भवद्विधनियोगानां न पदं पुण्यवर्जितः॥१६॥ तदद्यारभ्य संचित्य मनोज्ञं क्रियता तथा । यथा शक्रस्य सौस्थित्यं जायते मम च प्रभो १७ अयं शक्रो मम भ्राता तुरीयः सांप्रतं वली । एवं प्राप्य करिष्यामि पृथिवीं वीतकंटकां ॥१८॥ लोकपालास्तथैवास्य तच्च राज्यं यथा पुरा । ततोधिकं वा गृह्णातु विवेकेन किमावयोः ॥१९॥ आज्ञा च मम शके वा दातव्या भृत्यवस्तुनि । गुरुभिः सा हि शेषेव रक्षालं कारकारणं ॥२०॥ आस्यतामिहसछंदादथवा रथनूपुरे । यत्र वेच्छत का भूमिभृत्ययोरावयोनते ॥ २१॥ इति प्रियवचोवारिसमाीकृतमानसः । अवोचत सहस्रारस्तातोऽपि माधुरं वचः ॥२२॥ नूनं भद्रसमुत्पत्तिः सज्जनानां भवादृशां । सममेव गुणैः सर्वलोकाल्हादनकारिभिः ॥ २३ ॥ आयुष्मन्नस्य शौर्यस्य विनयोयं तवोत्तमः। अलंकारसमस्तेऽस्मिन् भुवने श्लाध्यतां गतः ॥ २४॥ भवतो दर्शनेनेदं जन्म मे सार्थकं कृतं । पितरौ पुण्यवंतौ तौ त्वया यौ कारणीकृतौं ॥ २५ ॥ क्षमावता समर्थेन कुंदनिर्मलकीर्तिना । दोषाणां संभवाशंका त्वया दूरमपाकृता ॥ २६ ॥ एवमेतद्यथा वक्षि सर्व संपाद्यते त्वयि । ककुप्करिकराकारौ कुरुतः किंतु ते भुजौ ॥ २७॥ किंतु मातेव नो शक्या त्यक्तुं जन्मवसुंधरा । साहि क्षणाद्वियोगेन कुरुते चित्तमाकुलं ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org