________________
३०७
पद्मपुराणम् ।
त्रयोदशं पर्व। दृष्टोऽथ गौरवेणोचे सहस्रारो दशाननं । जितस्तातस्त्वया शक्रो मुंचेदानी गिरा मम ॥३॥ वाहोः पुण्यस्य चोदात्तं सामर्थ्य दर्शितं त्वया । परगर्वावसादं हि समीहंते नराधिपाः ॥४॥ इत्युक्ते लोकपालानां वदनेभ्यः समुत्थितः । शब्दोयमेव विस्पष्टः प्रतिनिस्वनसन्निभः ॥५॥ लोकपालानथोवाच विहस्योद्वासितांतकः । समयोऽस्ति विमुंचामि येन नाथं दिवौकसां ॥६॥ अग्रप्रभृति मे सर्वे यूयं कर्म यथोचितं । संमार्जनादि सेवध्वं सर्वमंतर्बहिःपुरः॥७॥ पुरीयं सांप्रतं कृत्वा भवद्भिः प्रतिवासरं । परागाशुचिपाषाणतणकंटकवर्जिता ॥८॥ गृहीत्वा कुंभमिंद्रोऽपि वारिणामोदचारुणा । महीं सिंचतु कर्मेदमस्य लोके प्रकीर्त्यते ॥९॥ पंचवर्णैश्च कुर्वतु पुष्पैगंधमनोहरैः । संभ्रांताः प्रकरं देव्यः सर्वालंकारभूषिताः ॥ १० ॥ समयेनामुना युक्ता यदि तिष्ठति सादराः । विमुंचामि ततः शक्रं कुतो निर्मुक्तिरन्यथा ॥११॥ इत्युक्त्वा वीक्षमाणोऽसौ लोकपालांस्त्रपानतान् । जहास मुहुराप्तानां ताडयन्पाणिना करं ॥१२॥ ततो विनयनम्रः सन् सहस्रारमवोचत । सभाहृदयहारिण्या क्षरनिवगिरामृतं ॥ १३ ॥ यथा तात प्रतीक्ष्यस्त्वं वासवस्य तथा मम । अधिकं वा ततः कुर्या कथमाज्ञामहं न ते ॥१४॥ गुरवः परमार्थेन यदि न स्युर्भवादृशाः । अधस्ततो धरित्रीयं ब्रजेन्मुक्ताधरैरिव ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org