SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३०६ त्रयोदशं पर्व । वितृप्तिहर्षपूर्णाभिर्वधूभिः कृतवीक्षणः । स्वयं मृदुसमुद्भूतचामराभिः ससंभ्रमं ॥ ३७२ ॥ नानावादिवशब्देन जयशब्देन चारुणा । आनंदितसुवेश्याभिर्नृत्यंतीभिः समन्वितः ॥ ३७३ ॥ प्रविष्टो मुदितो लंकां समुद्भूतमहोत्सवां । भवनं च निजं वंधूभृत्यवर्गाभिनंदितः ॥ ३७४ ॥ सुसन्नद्धान् जित्वा तृणमिव समस्तानरिगणान् । पुरोपात्तात्पुण्यात्समधिगतसुप्राज्यविभवो । क्षयं प्राप्ते तस्मिन्विगतरुचिप्रभ्रष्टविभवो । बभूवासौ शक्रोधिगतिचपलं मानुषसुखं ॥ ३७५ ।। असौ प्राप्तो वृद्धि दशमुखखगः पूर्वचरिता च्छुभानिधूयालं प्रबलमहितवातमखिलं ॥ इति ज्ञात्वा भव्या जगति निखिलं कर्मजनितं । विमुक्तान्यासंगा रविरुचिकरं यातु सुकृतं ३७६ इत्यर्थे रविषेणाचार्यप्रोक्त पद्मचरिते इंद्रपराभवभिधानं नाम द्वादशं पर्व । त्रयोदशं पर्व। ततः शक्रस्य सामंताः स्वामिदुःखसमाकुलाः । पुरस्कृतसहस्राराः प्राप्ता रावणमंदिरं ॥ १॥ प्रविष्टाश्च प्रतीहारज्ञापिता विनयान्विताः । प्रणाम्य च स्थिता दत्तेष्वासनेषु यथोचितं ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy