________________
द्वादशं पर्व। तुरंगैश्चंचलच्चारुचामरालीविभूषितैः । नृत्यद्भिरिव विस्रब्धकृतविभ्रमहारिभिः ॥ ३५९ ॥ महनिनदसंघट्टैः प्रवृत्तमदनिझरैः । मद्भिर्मधुएं नागैः षट्पदालीनिषेवितैः ॥ ३६० ॥ अनुयानसमारूढमहासाधनखेचरैः । उपकंठं क्षणात्प्राप लंकायां राक्षसाधिपः ॥ ३६१ ॥ ततो दृष्ट्वा समासन्नं गृहीतार्या विनिर्ययुः । पुरस्य पालकाः पौरा बांधवाश्च समुत्सुकाः ॥३६२॥ कृतपूजनस्ततः कैश्चित्केषांचित्कृतपूजनः । नम्यमानोपरैः कांश्चित्प्रणमन्मदवर्जितः ॥ ३६३ ॥ दृष्टया सन्मानयन कांश्चित्स्निग्धया नतवत्सलः। स्मितेन कांश्चिद्वाचान्यान् परिज्ञातजनांतर:३६४ मनोहरां निसर्गेण विशेषणविभूषितां । समुच्छ्रितसमुत्तुंगरत्ननिर्मिततोरणां ॥ ३६५ ॥ मंदानिलविधूनांतबहुवर्णध्वजाकुलां । कुंकुमादिमनोज्ञांबुसिक्तनिश्शेषभूतलां ॥ ३६६ ॥ सर्वतकुसुमव्याप्तराजमार्गविराजितां । अनेकभक्तिभिः पंचवर्णैचूर्णैरलंकृतां ॥३६७ ॥ द्वारदेशसुविन्यस्तपूर्णकुंभां महाद्युतिं । सरसैः पल्लवैर्बद्धमालां वस्त्रविभूषितां ॥ ३६८ ॥ वृतो विद्याधरैर्देवैर्यथेंद्रोऽत्यंतभूरिभिः । सुखमासादयन् प्राज्यं पूर्वोपार्जितकर्मणा ॥ ३६९ ॥ आरूढ़ः परमे कांते पुष्पके कामगामिनि । स्फुरन्मौलिमहारत्नकेयूरधरसद्धजः ॥ ३७० ॥ दधानो वक्षसा हारं प्रस्फुरद्विमलप्रभं । वसंत इव संजातकुसुमौषविराजितः ॥ ३७१ ॥
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org