________________
पद्मपुराणम् ।
३०४
द्वादशं पर्व । तत उत्पत्य विन्यस्य पादमिंद्रेभमूर्धनि । नितांत लाघवोपेतपादनिर्धेतसारथिः ॥ ३४६ ।। बद्धांशुकेन देवेंद्रं मुहुराश्वासयद्विभुः । आरोपयद्यमध्वंसो निजं वाहनमूर्जितः ॥ ३४७ ॥ राक्षसाधिपपुत्रोऽपि गृहीत्वा वासवात्मजं । समर्प्य किंकरौघस्य सुरसैन्यस्य संमुखं ॥ ३४८ ॥ धावमानो जयोद्भूतमहोत्साहपरं तपः । उक्तो द्विपंतपेनैवं मरुत्तमखविद्विषा ॥ ३४९ ॥ अलं वत्स प्रयत्नेन निवर्तस्व रणादरात् । शिरोगृहीतमेतस्याः सेनाया गिरिवासिनां ।। ३५० ।। गृहीतेऽस्मिन् परिस्यंदमत्र कः कुरुते परः । क्षुद्रा जीवंतु सामंता गच्छंतु स्थानमीप्सितं॥३५१॥ तंदुलेषु गृहीतेषु ननु शालिकलापतः । त्यागस्तुषपलालस्य क्रियते कारणाद्विना ॥ ३५२ ॥ इत्युक्तः समरोत्साहादिंद्रजिद्विनिवर्तनं । चके चक्रेण महता नृपाणां बद्धमंडलः ॥ ३५३ ॥ ततः सुरवलं सर्व विशीर्ण क्षणमात्रतः । शारदानामिवाब्दानां वृंदमत्यंतमायतं ॥ ३५४ ॥ सैन्येन दशवक्त्रस्य जयशब्दो महान्कृतः । पटुभिः पटलैः शंखैझझरैदिनां गणैः ।। ३५५ ॥ शब्देन तेन विज्ञाय गृहीतममराधिपं । सैन्यं राक्षसनाथस्य बभूवाकुलितोज्झितं ॥ ३५६ ॥ ततः परमया युक्तो विभूत्या कैकसीसुतः । प्रतस्थे निवृतो लंकां साधनाच्छांदितांवरः॥३५७॥ आदित्यरथसंकाशैरथैर्वजविराजितैः । नानारत्नकरोद्भूतशुनासीरशरासनैः ॥ ३५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org