________________
पद्मपुराणम् ।
३०३
द्वादशं पर्व ।
कामरूपभृतो वाणास्ते गत्वा वृत्रविद्विषः । चेष्टया रहितं चक्रुः शरीरं कृतवेष्टनाः ॥ ३३३ ॥ महानीलनिभैरेनिर्वलयाकारधारिभिः । जगामाकुलतां शक्रचलद्रसनभीषणैः ॥ ३३४ ॥ प्रययावस्वतंत्रत्वं कुलिशी व्यालचेष्टितः । वेष्टितः कर्मजालेन यथाजंतुर्भवोदधौ ॥ ३३५ ॥ गरूडास्त्रं ततो दध्यौ सुरेंद्रस्तदनंतरं । हेमपक्षप्रभाजालैः पिंगतां गगनं गतं ॥ ३३६ ॥ पक्षवातेन तस्याभूनितांतोदाररंहसा । दोलारूढमिवाशेषं प्रेक्षणप्रवणं बलं ॥ ३३७ ॥ स्पृष्टा गरुडवातेन न ज्ञाता नागसायकाः । क्व गता इति विस्पष्टबंधस्थानोपलक्षिताः ||३३८ || गरुत्मता कृता श्लेषो बंधलक्षणवर्जितः । बभूव दारुणः शक्रो निदाघरविसन्निभः ॥ ३३९ ॥ विमुक्तं शक्रजालेन दृष्ट्वा शक्रं दशाननः । आरूढत्रिजगद्भूषं क्षरद्दानं जगद्विषं ॥ ३४० ॥ शक्रोप्यैरावतं रोषादस्यात्यासन्नमानयत् । ततो महदभूद्युद्धं दंतिनोः पुरदर्पयोः ॥ ३४१ ॥ क्षरदानौ स्फुरद्धेमकक्षविद्युद्गुणान्वितौ । दधतुस्तौ घनाकारं सांद्रगर्जितकारणौ ॥ ३४२ ॥ परस्पररदाघातनिर्घातैरिव दारुणैः । पतद्भिर्भुवनं कंपं प्रययौ शब्दपूरितं ।। ३४३ || पिंडयित्वा स्थवीयांसौ करौ चपलविग्रहौ । पुनः प्रसारयंतौ च ताडयंतौ महारयौ ॥ ३४४ ॥ दंतिनौ दृष्ट्रविस्पष्टतारकाक्रूरवीक्षणौ । चक्रतुः सुमहद्युद्धं स्तब्धकर्णौ महाबलौ || ३४५ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org