________________
पद्मपुराणम् ।
द्वादशं पर्व। आच्छिद्यंत शरा वाणैरभिद्यत च भूरिशः । भ्रांता इव रखेः पादाः क्वापि नष्टा निरन्वयाः३२० अंतरेऽस्मिन्नवद्वारगतिनिस्सारगोचरं । ननर्त कलहप्रेक्षासंभूतपुरुसंमदः ॥ ३२१॥ असाध्यं प्रकृतास्त्राणां ततो ज्ञात्वा दशाननं । निक्षिप्तमस्त्रमानेयं नाथेन स्वर्गवासिनां ॥३२२॥ इंधनत्वं गतं तस्य खमेव विततात्मनः । धनुरादौ तु किं शक्यं वक्तुं पुद्गलवस्तुनि ॥ ३२३ ॥ कीचकानामिवोदारो दह्यमाने वने ध्वनिः । ज्वालावलीकरालस्य संबभूवाशुशुक्षणेः ॥ ३२४ ॥ ततस्तेनाकुलं दृष्ट्वा स्वबलं कैकसीसुतः । चिक्षेप क्षेपनिर्मुक्तमस्त्रं वरुणलक्षितं ॥ ३२५ ॥ तेन क्षणसमुद्भूत महाजीमूतराशिना । पर्वतस्थूलधारौघवर्षिणा रावशालिना ॥ ३२६ ॥ रावणस्येव कोपेन विलीनेन विहायसा। क्षणात्तद्धमलक्ष्मांस विध्यापितमशेषतः ॥३२७॥ सुरेंद्रेण ततोऽसर्जि तामसास्त्रं समंततः । तेनांधकारिता चक्रे ककुभां नभसा समं ॥ ३२८॥ ततस्तेन दशास्यस्य विततं सकलं बलं । स्वदेहमपि नापश्यत्कुतः शत्रोरनीकिनी ॥ ३२९ ।। ततो निजबलं मूढं दृष्ट्वा रत्नश्रवःसुतः । प्रभास्त्रममुचत्कालवस्त्रयोजनकोविदः ॥३३०॥ तेन तन्निखिलं ध्वांत विध्वस्त क्षणमात्रतः । जिनशासनतत्त्वेन मतं मिथ्यादृशामिवः ॥ ३३१॥ ततोयमविमर्देन कोपानागारस्त्रमुज्झितं । वितेने गगनं तेन भोगिनीरत्नभासुरैः ॥ ३३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org