________________
३०१
पद्मपुराणम् ।
द्वादशं पर्व । तृणतुल्येषु नामीषु मम शस्त्रं प्रवर्तते । मनश्च सुमहावीरग्रासग्रहणघस्मरं ।। ३०७ ॥ आखंडलत्वमस्याद्य कृतं क्षुद्राभिमानतः । करोमि मृत्युना दूरं स्वविडंबनकारिणः ॥ ३०८ ॥ अयं शक्रो महानेते लोकपालाः प्रकल्पिताः । अन्ये च मानुषा देवा नाकश्च धरणीधरः ॥३०९॥ अहो लोकापहासस्य मत्तस्य क्षुद्रया श्रिया । आत्मा विस्मृत एवास्य भुकुंशस्येव दुमतेः ॥३१०॥ शुक्रशोणितमांसास्थिमज्जादिघटिते चिरं । उषित्वा जठरपापस्त्रिदशंमन्यतां गतः ॥ ६११॥ विद्याबलेन यत्किचित्कुर्वाणोधैर्यदुर्विधः । एष देवायते ध्वांक्षो वैनते यायते यथा ॥ ३१२ ॥ एवमुक्तेन शक्रस्य बलं सम्मतिना रथः । प्रवेशितो महाशूरः सामंतः परिपालितः॥ ३१३ ॥ पश्यनिंद्रस्य सामंतान् युद्धाशक्तपलायितान् । ऋजुना चक्षुषा राजा कीटकोपमचेष्टितान् ३१४ अशक्यः शत्रुभिधेतुं कूलैः पूरो यथांभसः । चेतोवेगच सक्रोधो मिथ्यादृष्टिव्रताश्रितैः ॥३१५॥ दृष्ट्रातपत्रमेतस्य क्षीरोदावर्तपांडुरं । नष्टं सुरवलं क्यापि तमश्चंद्रोदये यथा ॥ ३१६ ॥ इंद्रोऽपि गजमारूढः कैलाशगिरिसन्निभं । शरं समुद्धरस्तूणादभीयाय दशाननं ॥ ३१७ ॥ शरानाकर्णमाकृष्टान् चिक्षेप च यमद्विषि । महीधर इवांभोदः स्थूलधारामहाचयं ॥ ३१८ ॥ दशवक्त्रोऽपि तां बाणैराच्छिदंतरवर्तिनः । ततस्तैर्गगनं चक्रे निखिलं मंडपाकृति ॥ ३१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org