________________
३००
पद्मपुराणम् ।
द्वादशं पर्व ।
अन्येनाशीविषेणेव पततात्यंतभीषणा । दृष्टिरुल्का निभाक्षेपि प्रतिपक्षस्य विग्रहे ॥ २९४ ॥ अर्धकृत्तं शिरोऽन्येन धृत्वा वामेन पाणिना । पातितं प्रतिपक्षस्य शिरो विक्रमशालिना ।। २९५ ॥ चिद्विक्षि कोपेन शस्त्रमप्राप्तशत्रुकं । हंतुं परिघतुल्येन बाहुनेव समुद्यतः ॥ २९६ ॥ अरातिं मूर्छितं कश्चित्सिपेच स्वासृजा भृशं । शीतीकृतेन वस्त्रांतवायुना संभ्रमान्वितः ॥ २९७॥ विश्रांतं मूर्छया शूरैः शस्त्रघातैः सुखायितं । मरणेन कृतार्थत्वं मेने कोपेन कंपितः ॥ २९८ ॥ एवं महति संग्रामे प्रवृत्ते भीतिभीषणे । मटानामुत्तमानंदसंपादनपरायणे । २९९ ॥ गजनासासमाकृष्टवीरकल्पिततत्करे । जवनाश्वखुराघातपतत्तत्कर्तनोद्यते ॥ ३०० ॥ सारथिप्रेरणात्कृष्टरथवीक्षितवाजिनि । जंघावष्टंभसंक्रांतक्षतकुंभमहागजे ॥ ३०९ ॥ परस्परजवाघातदलत्पादातविग्रहे । भटोत्तमकराकृष्टपुच्छनिस्यंदवाजिनि ॥ ३०२ ॥ कराघातदलत्कुंभिकुंभनिष्ठयूतमौक्तिके । पतन्मातंगनिर्भग्नरथा हतपतद्भटे ॥ ३०३ ॥ कीलालपटलच्छन्नगगनाशाकदंबके । गजकर्णसमुद्भूततीत्राकुलसमीरणे ॥ ३०४ ॥ उवाच सारथिं वीरः सुमतिं कैकसीसुतः । न किंचिदिवमन्वानो रणं रणकुतूहली ॥ ३०५ ॥ तस्यैव शक्रसंज्ञस्य संमुखो वाह्यतां रथः । असमानैः किमत्रान्यैः सामंतैस्तस्यमारितैः || ३०६ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org