________________
पद्मपुराणम् ।
द्वादश पत्र । कश्चिञ्चकार पंथानमूनुं निघ्नन्भटावलिं । समरे पुरुषैरन्यैर्भयादकृतसंगमं ॥ २८१ ॥ पतंतोऽपि न पृष्ठस्य दर्शनं भटसत्तमाः। वितेरुः प्रतिपक्षस्य गर्वोत्तानितवक्षसः ॥ २८२ ॥ अश्वै रथैटै गैः पतद्भिरतिरंहसा । अश्वा रथा भटा नागा न्यपात्यंत सहस्रशः ॥ २८३ ॥ रजोभिः शस्त्रनिक्षेपसमुद्भूतैः सशोणितैः । दानांभसा च संच्छन्नं शक्रचारैरभून्नभः ॥ २८४ ॥ कश्चित्करेण संरुह्य वामेनांत्राणि सद्भटः । तरसा खड़मुद्यस्य ययौ प्रत्यरिभीषणः ॥ २८५ ॥ कश्चिनिजैः पुरीतद्भिद्धा परिकरं दृढं । दष्टोऽष्ठोभिययौ शत्रु दृष्टाशेषकनीनिकाः ॥ २८६ ॥ कश्चित्कीलालमादाय निजं रोषपरायणः । कराभ्यां द्विषतो मूर्ध्नि चिक्षेप गलितायुधः ॥२८७।। गृहीत्वा कीकसं कश्चिनिजं छन्नमरातिना । डुढौके तं गलद्गक्तधारांशुकविराजितः ॥ २८८ ॥ पाशेन कश्चिदानीय रिपुं युद्धसमुत्सुकः । मुमोच दूरनिर्मुक्तं रणसंभवसंभ्रमः ॥ २८९ ॥ कश्चिच्च्युतायुधं दृष्ट्वा प्रतिपक्षमनिच्छया । डुढौके शस्त्रमुज्झित्वा न्याय्यसंग्रामतत्परः ।। २९० ॥ पिनाकाननलग्नेन रिपून् कश्चित्प्रतिद्विषा । जघान घनकीलालधारानिकरवर्षिणा ॥ २९१ ॥ कश्चित्कबंधतां प्राप्तः शिरसा स्फुटरंहसा । मुंचस्तं दिशि कीलालं प्रतिपक्षमताऽयत् ॥ २९२ ॥ कृतोऽपि कस्यचिन्मूर्द्धा गर्वनिर्झरचेतसः । दष्टदंतच्छदोपप्तढुंकारमुखरश्चिरं ॥ २९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org