________________
पद्मपुराणम् ।
द्वादशं पर्व ।
प्रहारं मुंच भो शूर माभूः पुरुष कातरः । प्रहारं भट सहासेः सहस्व मम सांप्रतं ॥ २६८ ॥ अयं मृतोऽसि मां प्राप्य गतिस्तव कुतोधुना । दुःशिक्षित न जानासि गृहीतुमपि सायकं २६९ रक्षात्मानं व्रजामुष्माद्रणकंडूर्मुधा तव । कंडूरेव न मे भ्रष्टा क्षतं स्वल्पं त्वया कृतं ।। २७० ॥ मुधैव जीवनं भुक्तं पांडुकेन प्रभोस्त्वया । किं गर्जास फले व्यक्तिर्भटतायाः करोम्यहं ॥२७१॥ किं कंपसे भव स्थैर्य गृहाण त्वरितं शरं । दृढमुष्टिं कुरुवंसं खगोयं तव यास्यति ।। २७२ ॥ एवमादि समालापाः परमोत्साहवर्तिनां । भटानामाहवे जाताः स्वामिनामग्रतो मुहुः ॥२७३॥ अलसः कस्यचिद्वाहुराहतो गदया द्विषः । बभूव विशदोत्यंत क्षणनर्तनकारिणः ॥ २७४ ॥ प्रयच्छत्प्रतिपक्षस्य साधुकारं मुहुः शिरः । पपात कस्यचिद्वेगनिष्कामभूरिशोणितं ।। २७५ ।। अभिद्यत शरैवेक्षो भटानां नतु मानसं । शिरः पतात नो मानः कांतो मृत्युनं जीवितं ॥२७६।। कुर्वाणा यशसो रक्षां दक्षा वीरा महौजसः। भटाः संकटमायाता प्राणान् शस्त्रभृतोऽमुचन्॥२७७॥ म्रियमाणो भटः कश्चिच्छत्रुमारणकांक्षया । पपात देहमाक्रम्य रिपोः कोपेन पूरितः ॥ २७८ ॥ च्युते शस्त्रांतराघाताच्छस्ने कश्चिद्भटोत्तमः । मुष्टिमुद्गरघातेन चक्रे शत्रु गतासुकं ॥ २७९ ॥ आलिंग्य मित्रवत्कश्चिद्दोभ्या गाढं महाभटः । चकार विगलद्रक्तधारं शत्रु विजीवितं ।। २८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org