________________
२९७
पद्मपुराणम् ।
द्वादशं पर्च। ततः शस्त्रकृतध्वांते रक्तनीहारवर्तिनि । अज्ञायंत भटाः शूरास्तारारावेण केवलं ॥ २५५ ॥ प्रेरिताः स्वामिनो भक्त्या पूर्वमारवचोदिताः । प्रहारोत्थेन कोपेन भटा युयुधिरे भृशं ॥२५६॥ गदाभिः शक्तिभिः कुंतैर्मुशलैरसिभिः शरैः । परिषैः कनकैश्चकैः करवालिभिरंघ्रिपैः ॥ २५७ ।। शूलैः पाशैर्भुषंडीभिः कुठारैर्मुद्रैर्घनैः । ग्रावभिलागलैडैः कौणैः सायकवेणुभिः ॥ २५८ ॥ अन्यैश्च विविधैः शस्त्रैरन्योन्यच्छेदकारिभिः । करालमभवद्व्योम तदाघातोत्थितानलं ॥२५९॥ क्वचिद्ग्रसदिति ध्वानो भवत्यन्यत्र शूदिति । क्वचिद्रणरणारावः क्वचित्किणिकिणिस्वनः२६० त्रपत्रपायतेन्यत्र तथा दमदमायते । छमाछमायतेऽन्यत्र तथा पटपटायते ॥ २६१ ॥ छल छलायतेऽन्यत्र टद्दटद्दायते तथा । तटत्तटायतेऽन्यत्र तथा चटचटायते ॥ २६२ ॥ घग्घग्घग्घायतेऽन्यत्र रणं शस्त्रोत्थितैः स्वरैः । शब्दात्मकमिवोद्भूतं तदा त्वजिरमंडलं ॥२६३॥ हन्यते वाजिना वाजी वारणेन मतंगजः । तत्रस्थेन च तत्रस्थो रथेन ध्वस्यते रथः ॥ २६४ ॥ पदातिभिः समं युद्धं कर्तुं पादातमुद्यतं । यथा पुरोगतैकैकभटपाटनतत्परं ।। २६५ ॥ गजमूत्कृतनिस्सर्पच्छीकराकारसंहतिः । शस्त्रपातसमुद्भूतधूमकेतुमशीशमत् ।। २६६ ॥ प्रतिमा गुरवो दंता भ्रष्टा अपि गजाननात् । पतंतः कुर्वते भेदं भटपंक्तेरधोमुखाः ॥ २६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org