________________
पद्मपुराणम् ।
इशं पर्व ।
हतः श्रीमालिकः प्राप्य रथं वासवनंदनः । दध्मौ शंखं मुदा भीता राक्षसाश्च विदुद्रुवुः ।।२४२।। माल्यवत्तनयं दृष्ट्वा ततो निर्गतजीवितं । जयंतं च सुसन्नद्धं तोषमुक्तभटस्वनं ॥ २४३ ॥ आश्वासयन्निज सैन्यं पलायनपरायणं । इंद्रजित्संमुखीभूतो जयंतस्योत्कटो रुषा ॥ २४४ ॥ ततोऽभिभवने सक्तं जनानां तं कलिं यथा । जयंतमिंद्रजिच्चके जर्जरं वर्मवच्छरैः ॥ २४५ ॥ दृष्ट्वा च छिन्नवर्माणं रुधिरारुणविग्रहं । जयंतं शरसंघातैः प्राप्तं सलिलतुल्यतां ।। २४६ ॥ अमरेंद्रः स्वयं यो मुत्थितश्छादयनभः । नीरंधं वाहनैरुग्रैरायुधैश्च चलत्करैः ॥ २४७ ॥ अवादीत्सारथिश्चैवं रावणं सन्मतिश्रुतिः । अयं स देव संप्राप्तः स्वयं नाथो दिवौकसां ॥२४८॥ चक्रेण लोकपालानां परितः कृतपालनः । मत्तैरावतपृष्टस्थो मोलिरत्नप्रभावृतः॥ २४९ ॥ पांडुरेणोपरिस्थेन छत्रेणावृतभास्करः । क्षुब्धेन सागरेणेव सैन्येन कृतवेष्टनः ।। २५० ॥ महाबलोयमेतस्य कुमारो नोचितो रणे । उद्यच्छस्वयमेव त्वं जहि शत्रोरहंयुतां ।। २५१ ॥ ततोऽभिमुखमायांतं दृष्ट्वाखंडलमूर्जितं । संस्मृत्य मालिमरणं श्रीमालिवधदीपितः॥ २५२ ॥ दृष्ट्वा च शत्रुभिः पुत्रं वेष्टयमानं समंततः । दधाव रावणः क्रोधाद्रथेनानिलरंहसा ॥ २५३ ।। भटानामभवद्युद्धमेतयोरोमहर्षणं । तुमुलं शस्त्रसंघातघनध्वांतसमावृतं ॥ २५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org