________________
पद्मपुराणम् ।
२९५
द्वादश पर्व ।
वारयित्वेत्यसौ तातं संयुगाय समुद्यतः । कोपावेशाच्छरीरेण ग्रसमान इवांबरं ।। २३९ ।। प्रतिश्रीमालि चायासीदायासपरिवर्जितः । गुप्तः पवनवेगेन सैन्येनोज्वलहेतिना ॥ २३० ॥ श्रीमाली चापि संप्राप्तं चिराद्येोग्यं प्रतिद्विषं । दृष्ट्वा तुष्टो दधावास्य संमुखं सैन्यमध्यगः २३१ अमुंचतां ततः क्रुद्धौ शरासारं परस्परं । कुमारौ स तदाकृष्ट दृष्टकोदंडमंडलौ ॥ २३२ ॥ तयोः कुमारयोर्युद्धं निश्चलं पृतनीद्वयं । ददर्श विस्मयप्राप्तमानसं रेखया स्थितं ॥ २३३ ॥ कनकेन ततो भित्वाजयंतो विरथीकृतः । श्रीमालिना स्वसैन्यस्य कुर्वता शर्मदं परं ॥ २३४ ॥ मूर्छया पतिते तस्मिन् स्ववर्गस्यापतन्मनः । मूर्छायाश्च परित्यागादुत्थिते पुनरुत्थितं ।। २३५ ।। आहत्य भिंडिमालेन जयंतेन ततः कृतः । श्रीमालिविरथो रोषात्प्रहारेणातिवर्धितान् ॥ २३६|| ततः परबले तोषनिर्घोषोनिर्गतो महान् । निजे च यातुधानस्य समाक्रंदध्वनिर्बभौ ॥ २३७ ॥ गतमूर्छस्तु संक्रुद्धः श्रीमाली भृशभीषणः । किरन् प्रहरणत्रातं जयंताभिमुखो ययौ ।। २३८ ॥
तौतिजालं तौ कुमारौ रेजतुस्तरां । सिंहार्भकाविवोद्भूत दीप्तकेसरसंचयौ ॥ २३९ ॥ ततो माल्यवतः पुत्रः सुरराजस्य सूनुना । स्तनांतरे हतो गाढं गदया पतितो भुवि ॥ २४० ॥ वदनेन ततो रक्तं विमुंचन् धरणीं गतः । अस्तंगत इवाभाति कमलाकरबांधवः ॥ २४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org