________________
२९४
पद्मपुराणम् ।
द्वादशं ।
अमी समुत्थिता देवा निजं पालयितुं बलं । महाक्रोधपरीतांगाः समुल्लासितहेतपः ॥ २१६ ॥ शिखिकेसरिदंडोग्रकनक प्रवरादयः । छादयंतो नभो दूरं प्रावृषेण्या इवांबुदाः || २१७ ॥ स्वश्रीयाश्च सुरेंद्रस्य मृगचिह्नादयोऽधिकं । दीप्यमाना रणोद्भूततेजसा सुमहाबलाः || २१८ ॥ ततः श्रीमालिना तेषां शिरोभिः कमलैरिव । सशैवलैर्मही छन्ना चित्रचंद्रार्धसायकैः ॥ २१९ ॥ अचिंतयत्ततः शक्रो येनैते नरपुंगवाः । कुमाराः क्षयमानीताः सममेभिर्वरैः सुरैः ॥ २२० ॥ तस्यास्य को रणे स्थातुं पुरोवांछेद्दिवौकसां । राक्षसस्य महातेजो दुरीक्षस्यातिवीर्यवान् ॥ २२१ ॥ तस्मादस्य स्वयं युद्धश्रद्धाध्वंसं करोम्यहं । अपरानमरान्यावन्नयते नैष पंचतां ॥ २२२ ॥ इति ध्वात्वा समाश्वास्य बलं स त्रासकंपितं । योद्धुं समुद्यतो यावस्त्रिदशानामधीश्वरः ॥२२३॥ निपत्य पादयोस्तावज्जनस्पृष्ट महीतलः । तमुवाच महावीरो जयंत इति विश्रुतः ॥ २२४ ॥ सत्येव मयि देवेंद्र करोषि यदि संयुगं । ततो भवत्कृतं जन्म त्वया मम निरर्थकं ।। २२५ ।। armaish जनक्रीडां पुत्रप्रीत्या यदीक्षितः । त्वयाहं फलमेतस्य जनयामि तवाधुना ॥ २२६ ॥ सत्वं निराकुलो भूत्वा तिष्ठ तात यथेक्षितं । शत्रून् क्षणेन निश्शेषानयं व्यापादयाम्यहं ॥ २२७॥ नखेन प्राप्यते छेदं वस्तु यत्स्वल्पयत्नतः । व्यापारः परशोस्तत्र ननु तात निरर्थकः ॥ २२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org