________________
पद्मपुराणम् ।
२९३
द्वादशं पर्व । आवर्तेष्विव निक्षिप्ता राक्षसा वेगशालिषु । बभ्रमुर्विगलच्छस्त्रशिथिलास्थितपाणयः ॥ २०३ ॥ परावृत्ताथाप्यन्ये राक्षसा मानशालिनः । प्राणानभिमुखीभूता मुंचंति न तु सायकान् ॥२०४॥ ततो वसादनाद्भगं दृष्ट्वा तद्रक्षसां वलं । सूनुर्महेंद्रसेनस्य कपिकेतोर्महाबलः ॥ २०५ ॥ दक्षः प्रसन्नकीाख्यां धारयन्नर्थसंगतां । त्रासयन् द्विषतां सैन्यं जन्यस्य शिरसि स्थितं ॥२०६॥ रक्षता बलमात्मीयं तेन तत्रेदृशं बलं । शरैः पराङ्मुखं चक्रे निष्कामद्भिरनंतरं ॥ २०७॥ अतिमात्रं ततो भूरिविजयाधिनिवासिनां । सैन्यं प्राप्तं महोत्साहं नानाशस्त्रसमुज्ज्वलं ॥ २०८॥ दृष्ट्वैव कपिलक्ष्म्यास्य वजे छत्रेण भीषणं । अवाप मानसे भेदं विजयार्धाद्रिजंबलं ॥ २०९ ॥ तत्तेन विशिखैः पश्चात्स्फुरत्तेजःशिखै क्षणात् । भिन्नं कुतीर्थहृदयं यथा मन्मथविभ्रमैः ॥२१०॥ ततोन्यदपि संप्राप्तं सैन्यं त्रिशगोचरं । कनकासिगदाशक्तिचापमुद्गरसंकुलं ॥ २११ ॥ ततोऽतंराल एवातिवीरो माल्यवतः सुतः । श्रीमालीतिप्रतीतात्मा पुरोस्य समवस्थितः ॥२१२।। तेन ते क्षणमात्रेण सुराः सूर्यसमत्विषः । कनीता इति न ज्ञाता मुंचता शरसंहतीः ॥२१३ ॥ दृष्टा तमभ्रमित्रीणभनिवार्यरयं ततः । क्षोभयंतं द्विषां सैन्यं महाग्राहमिवार्णवं ॥ २१४ ॥ मत्तद्विपेंद्रसंघदृघटितारातिमंडलं । करवालकरोदार भटमंडलमध्यगं ॥ २१५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org