________________
पद्मपुराणम् ।
२९२
द्वादशं पर्व ।
स्पंदनं परतो देहि प्राप्तोयं मत्तवारणः । आधोरणगजं देशादस्मात्सारय सत्वरं ॥ १९० ॥ स्तंभितोसीह किं सार्दिनयाचंद्रुतमग्रतः । मुंच मुग्धे निवर्तस्व कुरु मा मां समाकुलं ।। १९१ ।। एवमादिसमालापाः सत्वरा मंदिरात्सुराः । निष्क्रांता गर्भनिर्मुक्तसुतारभटगर्जिताः ।। १९२ ।। आलीने च यथा जातप्रतिपक्षं चमूमुखे । विषमाहत तूर्येण परमुत्साहमाद्यते ॥ १९३ ।। ततो राक्षससैन्यस्य मुखभंगः सुरैः कृतः । मुंचद्भिः शास्त्रसंघातमंतर्हितनभस्तलं ॥ १९४ ॥ सेनामुखा सादेन कुपिता राक्षसास्ततः । अध्यूषुः पृतनावक्त्रं निजमूर्जितविक्रमाः ।। १९५ ।। वज्रवेगः प्रहस्तोथ हस्तो मारीच उद्भवः । वज्रवक्रः शुको घोरः सारणो गगनोज्वलः ॥ १९६॥ महाजठरसंध्या क्रूरप्रभृतयस्तथा । सुसंबद्धा सुपानाश्च सुशास्त्राश्च पुरस्थिताः ॥ १९७ ॥ ततस्तैरुत्थितैः सैन्यं सुराणां क्षणमात्रतः । कृतं विहितवित्रस्तं शस्त्रसंघातशत्रुकं ॥ १९८ ॥ भज्यमानं ततः सैन्यवक्त्रं दृष्ट्वा महासुराः । उत्थिता योद्धुमत्युग्रकोपापूरितविग्रहाः ॥ १९९ ॥ मेघमाली तडित्पिंगो ज्वलिताक्षोऽरिसंज्वरः । पावकस्पंदनाद्याच सुराः प्रकटतां ययुः ॥ २००॥ उत्थाय राक्षसास्तैस्ते मुंचद्भिः शस्त्रसंहतिं । अवष्टब्धाः समुद्भूततीत्रको पातिभासुरैः ॥ २०१ ॥ ततो भंगं परिप्राप्ताभिरं कृतमहाहवाः । प्रत्येकं राक्षसा देवैर्बहुभिः कृतवेष्टनाः ॥ २०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org