________________
पद्मपुराणम् ।
२९१
द्वादशं पर्व।
संग्रामे शस्त्रसंपातजातज्वलनजालके । वरंप्राणपरित्यागो नतुप्रतिनरानतिः ॥ १७७ ॥ सोयमिंद्रो दशास्यस्य राक्षसस्यानतिं गतः । इति लोके चहास्यत्वं न दृष्टं ते कथं मया १७८ नभश्चरत्वसामान्यं नच संधानकारणं । वनगोचरसामान्यं यथा सिंहशृगालयोः ॥ १७९ ॥ इति ब्रुवत एवास्य शब्दः पूरितविष्टपः । प्रविष्टः श्रोत्रयोः शत्रुबलजो वासरानने ॥ १८० ॥ ततोपकर्णाभं कृत्वा पितुः सन्नाहमंडपं । गत्वा सन्नाहसंज्ञार्थं तूर्य तारमवीवदत् ॥ १८१॥ उपाहर गजं शीघ्रं सप्तिं पर्याणय द्रुतं । मंडलाग्रमितो देहि पटु चाहर कंटकं ॥ १८२ ॥ धनुराहर धावस्व शिरस्त्राणमितः कुरु । यच्छार्धवाहकां क्षिप्रं देहि सायकपुत्रिकां ॥ १८३ ॥ चेट यच्छ समायोगं सज्जमाशु रथं कुरु । एवमादि कृतारावं सुरलोकश्चलोऽभवत् ॥ १८४ ॥ अथ क्षुब्धेषु वीरेषु रटत्सु पटहेषु च । तुंगरणत्सु शंखेषु सांद्रं गर्जत्सु दंतिषु ॥ १८५ ॥ मुंचत्सु दीर्घ हुंकारं स्पष्टनेत्रेषु सप्तिषु । संक्रीडत्सु रथौधेषु ज्याजाले पटु गुंजति ॥ १८६ ॥ भटानामट्टहासेन जयशब्देन वादिनां । अभूत्तदा जगत्सर्व शब्देनेव विनिर्मितं ॥ १८७ ॥ असिभिस्तोमरैः पाशैर्ध्वजै छत्रैः शरासनैः । ककुभश्छादिताः सर्वा प्रभावोपहृतो रवेः॥१८८॥ निष्क्रांताश्च सुसंनद्धाः सुरा रभसरागिणः । गोपुरे कृतसंघट्टा घंटाभिर्वरदंतिनां ॥ १८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org