________________
पद्मपुराणम्।
द्वादशं पर्व । स्मयरोषविमुक्तं तच्छ्रुत्वा वाक्यं सुतेरितं । सहस्रारोऽगदत्पुत्र त्वरावानिति मास्मभूः ॥ १६४ ॥ तावद्विपृश्य कार्याणि प्रवरैः मंत्रिभिः सह । जायते विफलं कर्माप्रेक्षापूर्वकारिणां ॥ १६५ ॥ भवत्यर्थस्य संसिद्धथै केवलं च न पौरुषं । कर्षकस्य विना कृष्टया कासिद्धिः कर्मयोगिनः१६६ समानमीहमानानां पठतां च समादरं । अर्थभाजोभवंत्येके नापरे कर्मणां वशात् ॥ १६७॥ एवं गतेपि संधानं रावणेन समं कुरु । तस्मिन् सति जगत्सर्व विधत्स्वोद्धृतकंटकं ॥ १६८ ॥ रूपिणीं च सुतां तस्मै यच्छ रूपवती सुतां । एवं सति न दोषोऽस्ति तथावस्था च राज्यता ॥ विविक्तधिषणेनासाविति पित्रा प्रबोधितः । रोषराशिवशोद्दारशोणचक्षुः क्षणादभूत् ॥ १७० ॥ . रोषज्वलनसंतापसंजातस्वेदसंततिः । बभाण भासुरः शक्रः स्फोटयन्निव खं गिरा ॥ १७१॥ बध्यस्य दीयते कन्येत्येतत्तात क युज्यते । प्रकृष्टवयसां पुसां धीर्यात्येवाथवा क्षयं ॥ १७२ ।। वद केनाधरस्तस्मादहं जनक वस्तुना । अत्यंतकातरं वाक्यं येनेदं भाषितं त्वया ॥ १७३ ॥ रवेरपि कृतस्पर्शः पादमूनोति खिद्यते । यो मेरुः कथमन्यस्य तुंगः प्रणतिमाचरेत् ॥ १७४ ।। पौरुषेणाधिकस्तावदेतस्मानितरामहं । देवं तस्यानुकूलं ते कथं बुद्धाववस्थितं ॥ १७५॥ विजिता बहवोनेन विपक्षा इति चेन्मतिः । हतानेककुरंगं किं शबरो हंति नो हरिं ॥ १७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org