________________
पद्मपुराणम् ।
द्वादशं पर्व ।
सुताकाशध्वजस्यासि संभूता विमले कुले । संजाता मृदुकांतायां शीलं रक्षितुमर्हसि ॥१५१ ॥ उच्यमानेति सा तेन नितांतं त्रपयान्विता । स्वभर्तरि समं चक्रे मानसं प्रतिबोधिनी ॥१५२॥ व्यभिचारमविज्ञाय कांताया नलकूवरः । रेमे तया समं प्राप्तः सन्मानं दशवक्त्रतः ॥ १५३ ॥ रावणः संयुगे लब्ध्वा परध्वंसात्परं यशः । वर्धमानश्रिया प्राप विजयाङगरेर्महीं ॥ १५४ ॥ अभ्यर्ण रावणं श्रुत्वा शक्रः प्रचलितं ततः । देवानास्थानसंप्राप्तान् समस्तानिदमभ्यधात् १५५ विश्वाश्वप्रमुखा देवाः संनयंत किमासनं । विश्रब्धं कुरुत प्रातः प्रभुरेष स रक्षसां ॥ १५६ ॥ इत्युक्त्वा जनकाद्देशं संप्रधारयितुं ययौ । उपविष्टो नमस्कृत्य धरण्यां विनयान्वितः ॥ १५७ ॥ उवाच च विधातव्यं किमस्मिन्नंतरे मया । प्रबलोऽयमरिः प्राप्तः बहुशो विजिताहितः ॥१५८॥ आत्मकार्यविरुद्धोयं तवात्यंतं मया कृतः । अनयः स्वल्प एवासौ प्रलयं यन्न लंभितः॥१५९।। उत्तिष्ठतो मुखं भक्तुमधरेणापि शक्यते । कंटकस्यापि यत्नेन परिणाममुपेयुषः ।। १६० ॥ उत्पत्तावेव रोगस्य क्रियते धंसनं सुखं । व्यापीतु बद्धमूलः स्यावंस क्षत्रियोऽथवा ॥१६१॥ अनेकशः कृतोद्योगस्तस्यास्मि विनिपातने । निवारितस्त्वया व्यर्थ येन शांतिर्मया कृता १६२ नयमार्ग प्रपन्नेन मयेदं तात भाष्यते । मर्यादेषेति पृष्टोऽसि नत्वशक्तोऽस्मि तद्वधे ॥ १६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org