________________
पद्मपुराणम् ।
૨૮૮
द्वादशं पर्व।
अपयातश्च शालोऽसौ विद्यालाभादनंतरं । स्थितं प्रकृतिशालेन केवलेनावृतं पुरं ॥ १३८ । बभूव रावणः साकं सैन्येन महतांतिकः । पुरस्य निंदनं श्रुत्वा क्षुब्धश्च नलकूवरः ॥ १३९ ।। तमदृष्ट्वा ततः शालं लोकपालो विषादवान् । गृहीतमेव नगरं मेने यक्षविमर्दिना ॥ १४० ॥ तथापि पौरुष विभ्रद् योढुं समभरेण सः । निष्क्रांतोऽत्यंत विक्रांतः सामंतशतवेष्टितः ॥१४१॥ ततो महति संग्रामे प्रवृत्ते शस्त्रसंकुले । अदृष्टपद्मिनीनाथकिरणे क्रूरनिःस्वने ॥ १४२ ॥ विभीषणेन वेगेन निपात्य नलकूबरः । गृहीतः कूवरं भक्त्वा स्पंदनस्यांघ्रिताडनात् ॥ १४३ ॥ सहस्रकिरणे कमें दशवक्त्रेण यत्कृतं । विभीषणेन क्रुद्धेन तत्कृतं नलकूवरे ॥ १४४ ॥ देवासुरभयोत्पादे दक्षं चक्रं च रावणः । त्रिदशाधिपसंबंधि प्रापन्नान्ना सुदर्शनं ॥ १४५ ॥ उपरंभा दशास्येन रहसीदमथोदिता । विद्यादानाद्गुरुत्वं मे वर्तते प्रवरांगने ॥ १४६ ॥ जीवति प्राणनाथे ते न युक्तं कर्तुमीदृशं । ममापि सुतरामेव न्यायमार्गोपदेशिनः ।। १४७ ॥ समाश्वास्य ततो नीतो भायाँ तां नलकूबरः । शस्त्रदारितसन्नाहदिष्टविक्षतविग्रहः ॥ १४८ ॥ अनेनैव समं भी भुंक्ष्व भोगान् यथेप्सितान् । कामवस्तुनि कोभेदो मम चास्य च भोजने ॥ मलीमसा च मे कीर्तिः कर्मेदं कुर्वतो भवेत् । अपरोऽपि जनः कर्म कुर्वीतेदं मया कृतं ॥१५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org