________________
२८७
पद्मपुराणम् ।
द्वादशं पर्व । विरोधवदिदं कर्म परत्रेह च जन्मनि । लोकद्वयपरिभ्रष्टः कीदृशो वद मानवः ॥ १२५ ॥ नरांतरमुखक्लेदपूर्णेऽन्यांगविमर्दिते । उच्छिष्टभोजने वक्तुं भद्रे वांछति को नरः ॥ १२६ ॥ मिथो बिभीषणायेदं प्रीत्यानेनाथ वेदितं । नयज्ञः स जगादैवं सततं मंत्रिगणाग्रणीः ॥१२७ ।। देव प्रक्रम एवायमीदृशो वर्तते यतः । अलीकमपि वक्तव्यं राज्ञा नयवता सदा ॥ १२८ ॥ तुष्टाभ्युपगमात्किंचिदुपायं कथयिष्यति । उपरंमा परिप्राप्तौ विश्रंभं परमागता ॥ १२९ ॥ ततस्तद्वचनात्तेन दूती छमानुगामिना । इत्यभाष्यत तन्नाम भद्रे यदुचितं त्वया ॥ १३० ॥ वराकी मगतप्राणा वतेते सा सुदुःखिता । रक्षणीया ममोदारा भवंति हि दयापराः ॥ १३१ ॥ ततश्च नय तां गत्वा प्राणैर्यावन्न मुच्यते । प्राणिनां रक्षणे धर्मः श्रूयते प्रकटो भुवि ॥ १३२ ॥ इत्युक्ता परिसृष्टा सा गत्वा तामानयत्क्षणात् । आदरश्च महा तस्याःकृतो यमविमार्दिना ॥१३३॥ ततो मदनसंप्राप्तौ सा तेनैवमभाष्यत । द्रुर्लध्यनगरे देवि रंतुं मम परा स्पृहा ॥ १३४ ॥ अटव्यामिह किं सौख्यं किंवा मदनकारणं । तथा कुरु यथैतस्मिन् त्वया सह पुरे रमे ॥१३५॥ ततस्तत्तस्य कौटिल्यमविज्ञाय स्मरातुरा । स्त्रीणां स्वभावमुग्धत्वात्पुरस्यागमनाय सा ॥१३६॥ ददावाशालिका विद्यां प्राकारत्वेन कल्पितां । व्यंतरैः कृतरक्षाणि नानास्त्राणि च सादरा १३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org