________________
पद्मपुराणम् ।
छादशं पर्व। वरं स्वामिनि कामं ते साधयामि क्षणादिति । गदित्वा निर्गता गेहादूती ज्ञाताखिलास्थितिः।। सांभोजीमूतसंकाशसूक्ष्मवस्रावगुंठिता । खमुत्पत्य क्षणात्ताप वसतिं रक्षसां प्रभोः ॥ ११३ ॥ अंतःपुरं प्रविष्टा च प्रतीहार्या निवेदिता । कृत्वा प्रणतिमासीना दत्ते सविनयासने ॥ ११४ ।। ततो जगाद देवस्य भुवनं सकलं गुणैः । दोषसंगोज्झितैयाप्तं यत्तद्युक्तं तवेदृशः ॥ ११५ ॥ उदारो विभवो यस्ते याचकांस्तर्पयन् भुवि । कारणेनामुना वेमि सर्वेषां त्वां हि ते स्थितं ११६ आकारस्यास्य जानामि न ते प्रार्थनभंजनं । भूतिर्भवद्विधानां हि परोपकृतिकारणं ॥ ११७ ॥ स त्वमुत्सारिताशेषपरिवर्गो विभो क्षणं । अवधानस्य दानेन प्रसादं कतुमहेसि ।। ११८ ॥ तथा कृते ततः कर्णे दशवक्त्रस्य सा जगौ । सकलं पूर्ववृत्तांतं सवेवृत्तांतवेदिनी ।। ११९ ॥ ततः पिधाय पाणिभ्यां श्रवणौ पुरुषोत्तमः । धुन्वन् शिरश्चिरं चक्षुः संकोचं परमानयत् ॥१२०॥ विचित्रवनितावांछाचिंताखिन्नमतिः क्षणं । बभूव केससीसुनुः सदाचारपरायणः ॥ १२१ ।। जगाद च स्मितं कृत्वा भद्रे चेतसि ते कथं । स्थितमीगिदं वस्तु पापसंगमकारणं ॥ १२२ ॥ ईदृशे याचितेऽत्यंत दरिद्रः किं करोम्यहं । अभिमानं परित्यज्य तथेदमुदितं त्वया ॥ १२३ ॥ विधवा भर्तृसंयुक्ता प्रमदा कुलबालिका । वेश्या च रूपयुक्तापि परिहार्या प्रयत्नतः ॥ १२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org