________________
पद्मपुराणम् ।
२८५
द्वादशं पर्व। सखी विचित्रमालाख्यामेकांते चेत्यभाषत । शृणु सुंदरि कास्त्यन्यसखी प्राणसमा मम ॥९९ ॥ समानं ख्यातिं येनातः सखिशब्दः प्रवर्तते । अतो न मे मतेर्भेदं कर्तुमर्हसि शोभने ॥१०॥ नियमात्कुरुषे यस्माद्दक्षे मत्कार्यसाधनं । ततो ब्रवीमि सख्यो हि जीवितालंबनं परं ॥ १०१॥ एवमुक्ता जगदासौ किमेवं देवि भाषसे । भृत्याहं विनियोक्तव्या त्वया वांछितकर्मणि ॥१०२॥ न करोमि स्तुतिं स्वस्य साहि लोकेऽतिनिंदिताः । एतावन्नु ब्रवीम्येषा सिद्धिरेवास्मि रूपिणी ॥ वद विसब्धिका भूत्वा यत्ते मनसि वर्तते । मयि सत्यां वृथा खेदः स्वामिन्या धार्यते त्वया ॥ उपरंभा ततोवादीनिश्वस्याहितमंथरं । पद्माभे? चंद्रमाकांते करे न्यस्य कपोलकम् ॥ १०५ ॥ निष्क्रांतस्तंभितान् वर्णान् प्रेरयंती पुनः पुनः । आरुढपतितं धार्थे कृच्छानिदधती मनः १०६ सखि बाल्यत आरभ्य रावणे मे मनोगतं । लोकावगामिनस्तस्य गुणाः कांता मया श्रुताः १०७ अप्रगल्भतया प्राप्ता साहमप्रियसंगमं । वहामि परमं प्रीतेः पश्चात्तापमनारतं ॥ १०८ ॥ जानामि च तथा नैतत्प्रशस्यमिति रूपिणि । तथापि मरणं सोढुं नास्मि सक्ता सुभाषिते १०९ सोयमासन्नदेशस्थो वर्तते मे मनोहरः । कथंचिदमुना योगं प्रसीद कुरु मे सखि ॥ ११० ॥ एषा नमामि ते पादावित्युक्ता तावदुद्यता | शिरो नमायितं तावत्सख्या तत्संभमादृतं ॥१११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org