________________
पद्मपुराणम् ।
द्वादशं पर्व । समस्ताप्तसमेतश्च प्रयत्नान्नलकूबरः । पुरस्याचिंतयद्रक्षामितिकर्तव्यतत्परः ॥ ८६ ॥ योजनानां शतं तुंगप्राकारो विद्यया कृतः । वज्रशाल इतिख्यातः परिधिस्त्रिगुणान्वितः ॥८७॥ रावणेन च विज्ञाय नगरं शत्रुगोचरं । गृहीतं प्रेषितो दंडः प्रहस्तो नाकिनीपतिः ॥ ८८ ॥ निवृत्य रावणायासावाख्यद्देव न शक्यते । गृहीतुं तत्पुरं तुंगप्राकारकृतवेष्टनं ॥ ८९ ॥ पश्य दृश्यत एवायं दिक्षु सर्वासु दारुणः । शिखरी विवरी दंष्ट्राकरालास्यशपमः ॥ ९०॥ दह्यमानमिवोदारं कीचकानां धनं वनं । स्फुलिंगराशिदुष्प्रेक्ष्यज्वालाजालसमाकुलं ॥ ९१ ॥ दंष्ट्राकरालवेतालरूपाण्यस्य नरान्बहून् । हरंत्युदारयंत्राणि योजनाभ्यंतरस्थितं ॥ ९२ ॥ तेषांवक्राणि ये प्राप्ता यंत्राणां प्राणिनां गणाः । तेषां जन्मांतरे भूयः शरीरेण समागमः॥९३॥ इति विज्ञाय कर्तव्यस्त्वया कुशलसंगमः । उपायो विजिगिषुत्वं क्रियते दीर्घदर्शिता ॥ ९४ ॥ निस्सर्पणामरं तावदस्माद्देशाद्विराजते । संशयः परमोप्यत्र दृश्यते दुनिराकृतः ॥९५ ॥ ततः कैलाशकुक्षिस्था दशवक्त्रस्य मंत्रिणः । उपायं चिंतयांचक्रुर्नयशास्त्रविशारदाः ॥ ९६ ॥ अथ रंभागुणाकारा नलकूबरकामिनी । उपरंभेति विख्याता शुश्रावांते दशाननं ॥ ९७ ॥ पूर्वमेव गुणैरक्ता तत्रोत्कंठापरामसौ । जगाम रजनीनाथे यथा कुमुदसंहतिः ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org