________________
पद्मपुराणम् ।
२८३
द्वादशं पर्व ।
प्रसन्नसलिला तत्र भाति मंदाकिनी भृशं । महिषी सिंधुनाथस्य कनकाब्जरजस्तथा ॥ ७३ ॥ सन्निवेश्य समीपेऽस्या वाहिनी परमाप तां । मनोज्ञं रमणं चके कैलाशस्य स कुक्षिषु ॥ ७४ ॥ नुनुदुः खेचराः खेदं भूचराश्च यथाक्रमं । मंदाकिन्याः सुखस्पर्शसलिले स्फटिकामले ॥ ७५ ॥ नमेरुपल्लवायास्तलोठनोपात्तपांशवः । नमिताः सप्तयः पीतपयसोविनयास्थिताः ॥ ७६ ॥ शीकरादितदेहत्वाद्ग्राहिताः सुघनं रजः । तटन्यस्तमहाभेदास्नपिताः कुंजराश्चिरं ।। ७७ ।। स्मृत्वानु वालिवृत्तातं नमस्कृतजिनालयः । यमध्वंसः स्थितः कुर्वश्चेष्टां धर्मानुगामिनीं ।। ७८ ॥ अथ योसौ सुरेंद्रेण नियुक्तो नलकूबरः । लोकपालतयाख्यातः पुरे दुर्लध्यसंज्ञके ॥ ७९ ॥ उपशल्यं सविज्ञाय रावणं चरवर्गतः । जिगीषया समायातं सैन्यसागरवर्तिनं ।। ८०॥ लेखारोपितवृत्तांत प्राहिणोदाशुगामिनं । खेचरं सुरनाथाय त्रासाध्यासितमानसः ॥ ८१ ॥ मंदिरंपस्थितायास्मै वंदितुं जिनपुंगवान् । प्रणम्य लेखवाहेन लेखोऽवस्थापितः पुरः ।। ८२ ॥ वाचयित्वा च तं कृत्वा हृदयेर्थमशेषतः । आज्ञापयत्सुराधीशो वास्त्विदं लेखदानतः ॥ ८३ ।। यत्नात्तावदिहास्थ त्वममोघास्त्रस्य पालकः । जिनानां पांडुके कृत्वा वंदनां यावदेम्यहं ।। ८४॥ इति संदिश्य गर्वेण सेनामगणयन् द्विषः । गतो सौ पांडुकोद्यानं वंदनासक्तमानसः ।। ८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org