________________
पद्मपुराणम् ।
द्वादश पर्व ॥
तेन सार्धं मया विद्या गृहीता गुरुवेश्मनि । दरिद्रकुलसंभूतस्तेनाहं स्वसमः कृतः ॥ ६० ॥ आत्मीया तेन मे पत्नी द्वेषवर्जितचेतसा । प्रेषिता पापचित्तस्य वितृष्णेन दयावता ।। ६१ । ज्ञात्वा वयस्यपत्नीति परमुद्वेगमागतः । शिरः स्वमसिना छिंदंस्तेनाहं परिरक्षितः ।। ६२ ।। अश्रद्दधज्जिनेंद्राणां शासनं पंचतां गतः । प्राप्तोऽस्मि दुर्गतौ दुःखं स्मरणेनापि दुस्सहं ॥ ६३ ॥ निंदनं साधुवर्गस्य सिद्धिमार्गानुवर्तिनः । यत्कृतं तस्य तत्प्राप्तं फलं दुःखासु योनिषु ॥ ६४ ॥ सचापि चरितं श्रुत्वा निर्मलं सुखमुत्तमं । ऐशाननिलये भुक्त्वा च्युतोयं वर्तते मधुः ॥ ६५ ॥ उपकारसमाकृष्टस्ततोऽसौ भुवनान्निजात् । निर्जगामक्षणोद्भूतपरप्रेमार्द्रमानसः ।। ६६ । दृष्ट्रादरेण कृत्वा च महरत्नादिपूजनं । शूलरत्नं ददावस्मै सहस्रांतिकसंज्ञितं ॥ ६७ ॥ शूलरत्नं सतत्प्राप्य परां प्रीतिं गतः क्षितौ । अस्त्रविद्याधिराजश्च सिंहवाहनजोऽभवत् ॥ ६८ ॥ एतन्मधोरुपारव्यानमधीते यः शृणोति वा । दीप्तिमर्थं परं चायुः सोऽधिगच्छति मानवः ॥ ६९॥ सामंतानुगतोथासौ मरुत्तमखनाशकृत् । प्रभावं प्रलयं लोके प्रवणीकृतविद्विषं ॥ ७० ॥ संवत्सरान् दशाष्टौ च विरञ्जनिताद्भूतं । भुवने जनितप्रेम्णि देवेंद्रस्त्रिदिवे यथा ।। ७१ ।। मुंचनात्समुद्रस्य धरणीं धरणीपतिः । चिरेण जिनचैत्याढ्यं प्रापाष्टापदभूधरं ।। ७२ ।।
Jain Education International
२८२
For Private & Personal Use Only
www.jainelibrary.org