________________
पद्मपुराणम् ।
२८१
द्वादशं पर्व। जगाद च त्वरायुक्तं परिष्वज्य स तं सुहृत् । आत्मघातितया दोषः प्राज्ञः किं नाम बुध्यसे ४७ आमगर्भेषु दुःखानि प्राप्नुवंति चिरं जनाः । ये शरीरस्य कुर्वति स्वस्याविधिनिपातनं ॥४८॥ इत्युक्त्वा सुहृदः खड़े करात्तस्य सुचेतसा । सात्वितश्च चिरं वाक्यैर्मनोहरणकारिभिः ॥ ४९ ॥ ईदृशी च तयोः प्रीतिरन्योन्यगुणयोजिता । प्राप्स्यत्यंतमहो कष्टः संसारः सारवर्जितः ॥५०॥ पृथक् पृथक् प्रपद्यते मुखदुःखकरीं गतिं । जीवाः स्वकर्मसंपन्नाः कोत्र कस्य सुहृजनः ॥५१॥ अन्यदाथ विबुद्धात्मा श्रमणत्वं समाश्रितः । ईशानकल्प ईशत्वं सुमित्रः प्राप्तवान् सुखी ॥५२॥ ततश्युत्वेह संभूतो द्वीपे जंबूपदांतिके । हरिवाहनराजस्य मथुरायां सुरः पुरि ॥ ५३ ॥ माधव्यास्तनयो नाम्ना मधुः स मधुमोहितः । नभसो हरिवंशस्य यश्चंद्रत्वमुपागतः॥ ५४॥ मिथ्यादृक्प्रभवो मृत्वा दुःखमासाद्य दुर्गतौ । विश्वावसोरभूत्पुत्रो ज्योतिष्मत्यां शिखिश्रुतिः ५५ श्रवणत्वधरः कृत्वा तपः कष्टं निदानतः । दैत्यानामधिपो जातश्चमराख्योऽधमामरः ॥५६॥ ततोवधिकृतालोकः स्मृत्वा पूर्वभवान् निजान् । गुणान् सुमित्रमित्रस्य चक्रे मनसि निर्मलान् ॥ सुमित्रराजचरितं स्मयमाणं सुपेशलं । असुरेंद्रस्य हृदयं चकते करपत्रवत् ॥ ५८ ॥ दध्यौ चेति पुनर्भद्रः सुमित्रोऽसौ महागुणः । आसीन्मम महामित्रः सहायः सर्ववस्तुषु ॥५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org