________________
पद्मपुराणम् ।
२८०
द्वादशं पर्व।
प्रधानंदिवसाधीशा सर्वेषां ज्योतिषां यथा । तथा समस्तरोगाणां मदनो मूर्ध्नि वर्तते ॥ ३४ ॥ विचित्तोऽसि किमित्येवमित्युक्तः सुहृदा च सः। जगाद सुंदरीं दृष्ट्वा विक्लवत्वस्य कारणं॥३५॥ श्रुत्वा प्राणसमस्यास्य दुःखं स्वस्त्रीनिमित्तकं । तामाशु प्राहिणोत्प्राज्ञः सुमित्रो मित्रवत्सलः३६ प्रेक्ष्यं च प्रभवागारं गवाक्षे गूढविग्रहः । सतीमैक्षत किंकुर्यादियमस्येति तत्परः ॥ ३७॥ अचिंतयच्च यद्येषा भवेन्नास्यानुकूलिका । ततोनिग्रहमेतस्याः कास्मि सुविनिश्चितं ॥ ३८ ॥ अर्थतस्याश्रवा भूत्वा कामं संपादयिष्यति । ततो ग्रामसहस्रेण पूजयिष्यामि सुंदरीं ॥ ३९॥ समीपं प्रभवस्यापि वनमाला च सोत्सुका । प्रदोषसमये स्पृष्टे ताराप्रकरमंडिते ॥ ४०॥ आसीनां चासने रम्ये पुरोदोषविवर्जितः । तामपृच्छदहो भद्रे का त्वमित्युत्कटादरः॥४१॥ ततोविवाहपर्यंतं तस्याः श्रुत्वा विचेष्टितं । प्रभवो निष्प्रभो जातो निर्वेदं च गतः परं ॥ ४२ ॥ अचिंतयच्च हा कष्टं मया मित्रस्य कामिनी । किमपि प्रार्थिता कर्तु धिङ्मामुच्छिन्नचेतनं ॥४३॥ पापादस्मान मुच्येहमृते स्वस्य विपादनात् । किंवा कलंकयुक्तेन जीवितेन मयाधुना ॥ ४४ ॥ इति संचिंत्य मूर्धानं स्वंलुलूषं चकर्ष सः । कोशतः सायकं सांद्रच्छायादिग्धदिगंतरं ॥ ४५ ॥ उपकंठं च कंठस्य यावदेनं चकार सः । निपत्य सहसा तावत्सुमित्रेण निरुध्यते ॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org