________________
पद्मपुराणम् ।
२७९
द्वादश पर्व ।
इत्युक्तः पुरुणा युक्तस्तेजसा धर्मवत्सलः । शूलरत्नस्य संप्राप्तेः कारणं गौतमोऽवदत् ॥ २१ ॥ घातकी लक्ष्मणि द्वीपे क्षेत्रे चैरावतश्रुतौ । शतद्वारपुरेऽभूतां मित्रे सुप्रेमबंधने ।। २२ । एकः सुमित्रनामासीदपुरः प्रभवश्रुतिः । उपाध्यायकुले चैतौ जातावतिविचक्षणौ ॥ २३ ॥ सुमित्रस्याभवद्राज्यं सर्वसामंतसेवितं । पुण्योपार्जितसत्कर्मप्रभावात्परमोदयं ॥ २४ ॥ दरिद्रकुलसंभूतः कर्मभिर्दुष्कुलैः पुरा । सुमित्रेण महास्नेहात्प्रभवोऽपि कृतः प्रभुः || २५ || सुमित्रोऽथान्यदारण्ये हृतो दुष्टेन वाजिना । दृष्टो द्विरददंष्ट्रेण म्लेच्छेन स्वैरचारिणा ॥ २६ ॥ आनीयासौ ततः पल्लि संप्राप्य समयं दृढं । पत्या म्लेच्छविरूथिन्यास्तनयां परिणायितः ॥ २७ ॥ तां च कन्यां समासाद्य साक्षादिव वनश्रियं । वनमालाश्रुतिं तत्र स्थितोऽसौमासमात्रकं ||२८|| अनुज्ञातस्तततस्तेन शतद्वारपुरोत्तमं । प्रस्थितः कांतया साकं वृतः शबरसेनया ।। २९ ॥ गवेषणे विक्रांतः प्रभवोथ तदैक्षत । कांतया सहितं मित्रं स्मरस्येव पताकया ॥ ३० ॥ चक्रे च मित्रभार्यायां मानसं पापकर्मण । उदयान्नष्टनिश्शेष कृत्याकृत्यविचेतनः ॥ ३१ ॥ मनोभवशरैरुयैस्ताड्यमानः समंततः । अवाप न कचित्सौख्यं मनसा भृशमाकुलः ॥ ३२ ॥ ज्येष्ठो व्याधिसहस्राणां मदनो मतिसूदनः । येन संप्राप्यते दुःखं नरैरक्षतविग्रहैः ॥ ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org