________________
पद्मपुराणम् ।
२७८
द्वादशं पर्व -
ज्ञात्वा चतीव वृत्तांतमयं सुंदर विभ्रमः । प्रख्यातगुणसंघातः परिप्राप्तो मदंतिकं ॥ ८ ॥ ततो मधोरिदं प्राह मंत्री देव तवाग्रतः । अस्य दुःखेन वर्ण्यते गुणाविक्रमशालिनः ॥ ९ ॥ तथापि भवतु ज्ञाता स्वामिनोस्य यथात्मना । इत्यावेदयितुं किंचित्क्रियते प्रक्रमो मया ॥ १० ॥ आमोदं परमं विभ्रत्सर्वलोकमनोहरः । मधुशब्दमयं धत्ते यथार्थ पृथिवीगतं ॥ ११ ॥ गुणा तावतैवगुणपर्याप्तवर्णना । असुरेन्द्रेण यद्दत्तं शूलरत्नं महागुणं ॥ १२ ॥ यत्प्रत्यरिबलं क्षिप्तममोघं भासुरं भृशं । द्विषत्सहस्रं नीत्वा तं करं प्रति निवर्तते ॥ १३ ॥ क्रिययैव च देवोस्य गुणान् ज्ञास्यति वाचिरात् । वाचा हि प्रकटीकारस्तेषां हास्यस्य कारणं ॥ तदस्य युक्त बुद्धिं करोतु परमेश्वरः । सम्बंधं भवतो लब्ध्वा कृतार्थोऽयं भविष्यति ।। १५ । इत्युक्ते निश्चितो बुद्धया जामातासौ निरूपितः । समस्तं च यथायोग्यं कृतांतस्य प्रकल्पितं १६ चिंतितप्राप्तिनिश्शेषकारणश्च तयोरभूत् । विवाहविधिरत्यंतप्रीत लोकसमाकुलः ॥ १७ ॥ पुष्पलक्ष्मीमिव प्राप्य दुराख्यानां समागतः । आमोदं जगतो हृद्यं मधुस्तां नेत्रहारिणी || १८ || इंद्रभूतिमिहोद्देशे प्रत्युत्पन्नकुतूहल: । अप्रच्छन्मगधाधीशः कृत्वाभिनवमादरं ।। १९ ।। असुराणामधीशेन मधवे केन हेतुना । शूलरत्नं मुनिश्रेष्ठ दत्तं दुर्लभसंगमं ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org