SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ द्वादशं पर्व । नाम श्रुत्वा प्रणमति जनः पुण्यभाजां नराणां । चारुस्त्रीणां निखिलविषयप्राप्यसंघा भवंति ॥ उत्पद्यते परमविभवा विस्मयानां निवासा । शैत्यं यात्राद्रविरपि ततः पुण्यबंधे यतध्वं ॥ ३८३ || इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते महत्तयज्ञध्वंसनपदानुगाभिधानं नाम एकादशं पर्व | पद्मपुराणम् । २७७ द्वादशं पर्व | तत्राथ मंत्रिभिः सार्धं चक्रेऽसौ संप्रधारणं । कस्मै तु दीयतामेषा कन्येति रहसिस्थितः ॥ १ ॥ इंद्रेण सह संग्रामे जीविते नास्ति निश्चयः । अतो वरं कृतं बालापाणिग्रहणमंगलं || २ || तं च चिंतापरं ज्ञात्वा कन्यावरगवेषणे । हरिवाहनराजेन सूनुराधा निर्तेत्तिकं ॥ ३ ॥ दृष्ट्ा तं सुंदराकारं प्रणतं तोषमागतः । दशाननः सुतां चास्मै दातुं चक्रे मनोरथं । ४ ॥ उचिते चासने तस्मिन्नासीने संचिवान्विते । अचिंतयद्दशग्रीवो नयशास्त्रविशारदः ।। ५ ।। मथुरानगरीनाथः सुगोत्रो हरिवाहनः । अस्मद्गुणगणे कीर्तिसततासक्तमानसः ॥ ६ ॥ अस्य च प्राणभूतोऽयं बंधूंनां च मधुः सुतः । श्लाघ्यो विनयसंपन्नो योग्यः प्रीत्यनुवर्तते ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy