________________
पद्मपुराणम् ।
૨૦૬
एकादश पर्व |
महोत्सव दशग्रीवो बभूव प्राणधारिणां । पुण्यसंपूर्णदेहानां सौभाग्यं केन कथ्यते ॥ ३७१ ॥ इंदीवरचयश्यामः स्त्रीणामौत्सुक्यमाहरत् । साक्षादिव बभूवासौ वर्षाकालो महाध्वनिः ॥ ३७२ ॥ गर्जितेन पयोदानां रावणस्येव शासनात् । घोषणेन कृता सर्वैः प्रणतिः पतिभिर्नृणां ।। ३७३ ।। कन्या दृष्टिहराः प्रापुर्दशवक्त्रं स्वयंवराः । भूगोचराः परित्यक्तगगना इव विद्युतः || ३७४ ॥ रेमिरे तास्तमासाद्य महीधरणतत्परं । पयोधरभराक्रांताः सद्वर्षा इव भूभृतं ।। ३७५ ।। जिगीषोर्यक्षमर्दस्य दृष्द्दैव परमां द्युतिं । भास्वान् पलायितः कापि त्रपात्राससमाकुलः ।। ३७६ ।। दशाननस्य यद्वक्त्रं तदेव कुरुते क्रियां । मदीयामिति मत्वेव जगाम क्वापि चंद्रमाः || ३७७ ॥ दशवक्त्रस्य वक्त्रेण जितं ज्ञात्वा निजंपतिं । भयेनेव समाक्रांतास्ताराः क्वापि पलायिताः ३७८ सुरक्तं पाणिचरणं कैकसेयस्य योषितां । विदित्वेव त्रपायुक्ता तिरोभूदन्जसंहतिः ॥ ३७९ ॥ रसना विद्युता युक्ता रक्तांशुकसुरायुधाः । नार्यः पयोधराक्रांता तस्य वर्षाइवाभवन् ॥ ३८० ॥ आमोद रावणो जज्ञे केतकीनां न योषितां । विश्वासमरुताॠष्ट गुंजभ्रमरपंक्तिना ।। ३८१ ॥ भागीरथ्यास्तटमतितरां रम्यमासाद्य दुरं । प्रांतोद्भूतप्रचुरविलसत्कांतिशिष्यं विशालं ॥ नानापुष्पप्रभवनिबिडघ्राणसंरोधिगंधं । क्षोणीबंधुर्जलदसमयं सर्वसौख्येन निन्ये ॥ ३८२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org