________________
पद्मपुराणम् ।
२७५
एकादशं पर्व ।
बलाकाविद्युदिंद्रास्त्रकृतभूषा घनाघनाः । महानीलगिरिच्छाया कुर्वतः पटुनिस्वनं ॥ ३५८ ॥ हेमाभृतः कंबुध्वजभूषितविग्रहाः । प्रहता भांति शक्रेण रावणस्य गजा इव ।। ३५९ ॥ दिशधकारिता सर्व जीमूतपटलैस्तथा । रात्रिंदिवस्य न ज्ञातो भेद एव यथा जनैः ॥ ३६० ॥ अथवा युक्तमेवेदं कर्तुं मलिनताभृतां । यत्प्रकाशतमोयुक्तान् कुर्वति भुवने समान् || ३६१ ॥ भूमिजीमूतसंसक्ताः स्थूला विच्छेदवर्जिताः । नाज्ञायंत घनाधारा उत्पतंति पतंति नु ॥३६२॥ मानसे मानसंभारो मानिनीभिरिं धृतः । पटुनोमेघरटितान् क्षणेन ध्वंसमागतः || ३६३ ।। घनध्वनितवित्रस्ता मानिन्यो रमणं भृशं । आलिलिंगू रणत्कारिबलयाकुलवाहवः ॥ ३६४ ॥ शीतला मृदवो धारा पथिकानां घनोज्झिता । द्रष्टृणां समतां जग्मुः कुर्वत्योमर्मदारणं ।। ३६५ ।। भिन्नं धाराकदंबेन हृदयं दूरवर्तिनः । चक्रेणेव सुतीक्ष्णेन पथिकस्याकुलात्मनः ॥ ३६६ ॥ नीतो वनेन पीनेन मूढतां पथिको यथा । पुस्तकर्मसमोजातो वराकः क्षणमात्रकं ।। ३६७ ।। क्षीरोदपायनो मेघा प्रविष्टा इवधेनुषु । अन्यथा क्षीरधारास्ताश्चक्षरुः सततं कथं ।। ३६८ ।। वर्षाणां समये तस्मिन्न बभूवुः कृषीवला । समाकुलाः प्रभावेण रावणस्य महाधनाः ॥ ३६९ ॥ अन्नमेकस्य हेतोर्यत्कुटुंबिन्या प्रसाधितं । भुज्यमानं कुटुंबेन तन्निष्ठां समुपागमत् ॥ ३७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org