________________
२७४
पद्मपुराणम् ।
एकादशं पर्व । जिनेन्द्रः प्रापितः पूजाममरैः कनकांबुजैः । द्रुमपुष्पादिभिः किन्न पूज्यतेऽस्मद्विधैर्जनैः ।।३४५।। नानाजनपदैरेव सामंतैश्च महर्दिभिः । पूजितः प्रतिसन्मानं तेषां चक्रे प्रियोदितैः ।। ३४६ ॥ परां प्रीतिमवापासौ पश्यन् रम्यां वसुंधरां । कांतामिव निजां नानारत्नालंकारशालिनी॥३४७।। संगं देशेन येनासौ ययौमार्गवशाद्विभुः । अकृष्टपच्यसस्याढ्यं तत्रासीद्वसुधातलं ॥ ३४८ ॥ प्रमोदं परमं विभ्रज्जनोस्य धरणीतलं । अनुरागांभसा कीर्तिमभ्यसिंचत्सुनिर्मलं ॥ ३४९ ॥ कृषीवलजनाश्चैवमूचुः पुण्यजुषो वयं । येन देशमिमं प्राप्तो देवो रत्नश्रवःसुतः ॥ ३५० ॥ अन्यदा कृषिसक्तानां रूक्षांगानां कुवाससां । वहतांकर्कशस्पर्श पाणिपादं सवेदनं ॥ ३५१ ॥ क्लेशात्कालो गतोऽस्माकं सुखस्वादविवर्जितः । प्रभावादस्यभव्यस्य सांप्रतं वयमीश्वराः ३५२ पुण्येनानुगृहीतास्ते देशाः संपत्समाश्रिताः । येषु कल्याणसंभारो विचरत्येष रावणः ॥ ३५३ ॥ कृत्यं किं बांधवैर्ये न समर्था दुःखनोदने । अयमेव महाबंधुः सर्वेषां प्राणिनामभूत् ॥ ३५४ ॥ अनुरागं गुणैरेवं स लोकस्य प्रवर्द्धयन् । चकार तस्य हेमंतं निदाघं च सुखप्रदं ॥ ३५५ ॥ आसतां चेतनास्तावद्येऽपि भावा विचतना । तेऽपि भीता इवामुष्माभूवुर्लोकसौख्यदाः॥३५६॥ तावच व्रजतस्तस्य प्रादुरासीद्धनागमः । अभ्युत्थानं दशास्यस्य कुर्वन्निव ससंभ्रमः ॥३५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org