________________
पद्मपुराणम् ।
२७३
एकादशं पर्व। नीतः सहस्ररश्मिश्च राज्यभारविमुक्ततां । मरुतस्य च विध्वस्तो वितानः शौर्यशालिना ॥३३२॥ अहो समागमः साधुः कृतोयं कर्मभिश्चिरात् । रूपस्य केकसीमूनोर्गुणानां च जनोत्सवः ३३३ योषित्पुण्यवती सोयं धृतो गर्भे ययोत्तमः । पिताप्यसौ कृतार्थत्वं प्राप्तः कृत्वास्य संभव ३३४ श्लाघ्यः स बंधुलोकोऽपि यस्यायं प्रेमगोचरः । अनेनोपयता यास्तु तासां स्त्रीणां किमुच्यते ३३५ आलापमिति कुर्वन्त्यस्तावदैक्ष्यंत ताः स्त्रियः । गोचरत्वमवापायं यावद्विततचक्षुषां ॥ ३३६ ॥ गते तस्मिन्मनश्चौरे चक्षुर्गोचरतात्ययं । मुहूर्तमभवन्नार्यः पुस्तकर्मगता इव ॥ ३३७ ॥ तेनोपहतचित्तानां वांछंतीनां मनोगतं । कर्तुमन्यदभूत्कर्म कियताचिदनेहसा ॥ ३३८ ॥ बभूवेति दशग्रीवे देशे तत्संगमोज्झिते । नारीणां पुरुषाणां च त्यक्तान्याशेषसंकथा ॥ ३३९ ।। विषये नगरे ग्रामे घोषे वा ये प्रधानतां । भजते पुरुषस्ते तमुपायनभृतोऽगमन् ॥ ३४० ॥ गत्वा जनपदाश्चैवमुपनीय यथोचितं । रचितांजलयो नत्वा परितुष्टा व्यजिज्ञपन् ॥ ३४१॥ नंदनादिषु रम्याणि यानि द्रव्याणि पार्थिव । सुलभत्वं प्रपन्नानि तव तान्यपि चिंतनात् ३४२ महविभवपात्रस्य किमपूर्व भवेत्तव । उपनीय प्रमोदंते यत्कुर्मो द्रविणं वयं ॥ ३४३ ॥ तथापि शुन्यहस्तानामस्माकं तव दर्शनं । न युक्तमिति यत्किचिदुपादाय समागताः ॥३४४॥
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org