________________
२७२
पद्मपुराणम् ।
एकादशं पर्व । मरुत्तमखविध्वंसो यं यं देशमुपागतः । रम्यं तस्याकरोल्लोकः पंथानं तोरणादिभिः ॥ ३१९ ।। शशांकसौम्यवक्त्राभिर्नेत्रे सरसिजोपमे । विभ्रतीभिः सुलावण्यपूर्णदेहाभिरादरात् ।। ३२० ।। महीगोचरनारीभिर्विद्याधरकुतूहलात् । वीक्ष्यमाणा ययुर्भूम्यां खेचरास्तद्दिदृक्षया ॥ ३२१ ॥ नगरस्य समीपेन व्रजंतं कैकसीसुतं । निधृतसायकश्यामं पक्वबिंबफलाधरं ॥ ३२२ ॥ मुकुटन्यस्तमुक्तांशुसलिलक्षालितालिकं । इंद्रनीलप्रभोदारस्फुरत्कुंतलतारकं ।। ३२३ ॥ सहस्रपत्रनयनं शर्वरीतिलकाननं । सद्यचापानतस्निग्धनीलभ्रूयुगराजितं ॥ ३२४ ॥ कंबुग्रीवं हरिस्कंधं पीनविस्तीर्णावक्षसं । दिग्नागनाशिकाबाहुं वज्रवन्मध्यदुर्विधं ॥ ३२५ ॥ नागाभोगसमाकारप्रसृतं मग्नजानुकं । सरोजचरणां न्याय्यप्रमाणस्थितविग्रहं ॥ ३२६ ॥ श्रीवत्सप्रभृतिस्तुत्यद्वात्रिंशल्लक्षणांचितं । रत्नरश्मिज्वलन्मौलिं विचित्रमणिकुंडलं ॥ ३२७ ।। केयूरकरदीप्तांशं हारराजितदक्षसं । प्रत्यर्धचक्रभृद्भोगं दृष्टुमुत्सुकमानसाः ॥ ३२८ ॥ आपूरयन् परित्यक्त समस्तप्रस्तुतक्रियाः । वातायनानि सद्वेषाः स्त्रियोऽन्योन्यविपीडिताः ॥३२९॥ निश्चिक्षिपुश्च पुष्पाणि समेधानि मधुव्रतैः । तुष्टाश्च विविधालापाश्चक्रुस्तदर्शनामिति ॥ ३३०॥ अयं स रावणो येन जितो मातृश्वसुः सुतः । यमश्च यश्च कैलाशं समुत्क्षेप्तुं समुद्यतः ।। ३३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org