________________
पद्मपुराणम् ।
૨
एकादशं पर्व |
गृह्यतां कन्यका चेयं नाम्ना मे कनकप्रभा । वस्तूनां दर्शनीयानां भवानेव हि भाजनं ॥ ३०६ ॥ प्रणतेषु दयाशीलस्तां प्रतीयेष रावणः । उपयेमे च सात्यंतप्रवृत्तपरमोदयः ॥ ३०७ ॥ तत्सामंताश्च तुष्टेन मरुतेन यथोचितं । भटाच पूजिता कानवासोऽलंकरणादिभिः ॥ ३०८ ॥ कनकप्रभया सार्धं रममाणस्य चाजनि । सुता संवत्सरस्यांते कृतचित्रेति नामतः ।। ३०९ ॥ रूपेण हि कृतं चित्रं तया लोकस्य पश्यतः । मूर्तियुक्तेव सा शोभा चक्रे चित्तस्य चोरणं ३१० जयार्जितसमुत्साहाः सूरास्तेजस्वि विग्रहाः । सामंता दशवक्त्रस्य रेमिरे धरणीतले ।। ३११ ॥ धत्ते यो नृपतिख्यातं तान् दृष्ट्वा स बलीयसः । जगामात्यंतदीनत्वं स्वभोगभ्रंशकातरः || ३१२ || मध्यभागं समालोक्य वर्षस्यांवरगोचराः । कनकाद्रिनदीरम्यं विस्मयं प्रापुरुत्तमं ॥ ३१३ ॥ ऊचुः केचिद्वरं भद्रा अत्रैवावस्थिता वयं । नूनं स्वर्गोऽपि नैतस्माद्भजते रामणीयकं ।। ३१४ ।। अन्येऽवदन्निमं देशं दृष्ट्वा लंकानिवर्तने । कटुंबदर्शनं शुद्धं कारणं नो भविष्यति ।। ३१९ ।। rasaोचन गृहे वासो न मनागपि शोभते । दृश्यतामस्य देशस्य पार्थिवं चित्तहारिणः || ३१६ ॥ समुद्रविपुलं सैन्यं पश्यतात्र कथं स्थितं । मरुत्तमखभंगस्य यथान्योन्यं न दृश्यते ॥ ३१७ ॥ अहो धैर्यमहोदारं लोकस्य क्षणहारिणः । एतस्य खेचराणां प्रशस्तोऽयं निरूप्यते ।। ३१८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org