________________
२७०
पद्मपुराणम् ।
एकादशं पर्व |
तत्प्रदेशे कृता देवैस्तस्मिन्काले विभोर्यतः । पूजास्तेनैव मार्गेण लोकोऽद्यापि प्रवर्तते ॥ २९३ ॥ प्रतिमाश्च सुरैस्तस्य तस्मिन्देशे सुमानसैः । स्थापिता रम्यचैत्येषु मनुजैश्च महोत्सवैः ।। २९४ ॥ भरतेनास्य पुत्रेण सृष्टा ये चक्रवर्तिना । पुरा मरीचिना ये च प्रमादस्मययोगतः ।। २९५ ।। विसर्पणमिमे सूत्र कंठास्तु भुवने गताः । प्राणिनां दुःखदा यद्वत्सलिले विषविंदवः ।। २९६ ।। उद्वृत्तकुहुकाचारैर्बहुडिंभैः कुलिंग कैः । प्रचंड दंडैरत्यंतं तैरिदं मोहितं जगत् ॥ २९७ ॥ जातं शश्वत्प्रवृत्तातिक्रूरकर्मतमश्चितं । प्रनष्टसुकृतालोकं साधुसत्कारतत्परं ।। २९८ । एकविंशतिवारान्ये निधनं प्रापिताः क्षितौ । सुभूमचक्रिणा प्राप्ता न नितांतमभावतां ॥ २९९ ॥ ते कथं वद शाम्यते त्वया विप्रा दशानन । उपशाम्यानया किंचिन्नकृत्यं प्राणिहिंसया ॥ ३००॥ जिनैरपि कृतं नैतत्सर्वज्ञैर्निःकुमार्गकं । जगत् किमुत शक्यते कर्तुमस्मद्विधैर्जनैः || ३०१ ॥ इति देवयतेः श्रुत्वा कैकसीकुक्षिसंभवः । पुराणकथया प्रीतो नमश्चक्रे जिनाधिपं ॥ ३०२ ॥ संकथाभिश्च रम्याभिर्महापुरुषजन्मभिः । स्थितः क्षणं विचित्राभिर्नारदेन समं सुखी ॥ ३०३ ॥ मरुतोऽथांजलिं बध्वा क्षितिसक्तशिरोरुहः । प्रणनाम यमोन्मादं नयविचैवमब्रवीत् ।। ३०४ ॥ भृत्योऽहं तव लंकेश ! भज नाथ ! प्रसन्नतां । अज्ञानेन हि जंतूनां भवत्येव दुरीहितं ॥ ३०५ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org