________________
पद्मपुराणम् ।
द्वितीयं पर्व । परिग्रहपरिष्वंगाद्वेषो रागश्च जायते । रागद्वेषौ च संसारदुःखस्योत्पत्तिकारणं ॥१८२ ॥ लब्ध्वापि दर्शनं सम्यक् प्रशमाद्दर्शनातेः । चारित्रं न प्रपद्यते चारित्रावरणादृताः ॥ १८३ ॥ चारित्रमपि संप्राप्ताः कुर्वतः परमं तपः । परीषहैः पुनर्भगं नीयते दुरतिक्रमैः ।। १८४ ॥ अणुव्रतानि सेवंते केचिद्गमुपागताः । केचिद्दर्शनमात्रेण भवंति परितोषिणः ॥१८५॥ . केचिद्गंभीरसंसारकूपहस्तावलंवनं । सम्यग्दर्शनमुत्सृज्य मिथ्यादृष्टिमुपासते ॥ १८६ ॥ मिथ्यादर्शनसंयुक्तास्ते पुनर्भवसंकटे । भ्राम्यंति सततं जीवा दुःखाग्निपरिवर्तिनः ॥ १८७ ॥ केचित्तु पुण्यकर्माणश्चारित्रमविलंबितं । निर्वहंति महाशूरा यावत्प्राणविसर्जनं ॥ १८८ ॥ ते समाधि समासाद्य कृत्वा देहविसर्जनं । वासुदेवादितां यांति निदानकृतदोषतः ॥ १८९ ।। ते पुनः परपीडायां रता निर्दयचेतसः । नरकेषु महादुःखं प्राप्नुवंति सुदुस्तरं ॥१९॥ केचित्तु सुतपः कृत्वा यांति गीर्वाणनाथां । अपरे बलदेवत्वमन्ये तूत्तरवासितां ॥ १९१ ॥ केचित्प्राप्य महासत्त्वा जिनकर्माणि षोडश । तीर्थकृत्त्वं प्रपद्यते त्रैलोक्यक्षोभकारणं ॥ १९२ ॥ केचिनिरंतरायेण त्रितयाराधने रताः । द्विवैभवैर्विमुच्यते कर्माष्टककलंकतः ॥ १९३ ॥ संप्राप्ता परमं स्थानं मुक्तानामुपमोज्झितं । अनंतं निःप्रतिद्वंद्वं लभंते सुखमुत्तमं ॥ १९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org