________________
पद्मपुराणम् ।
२५
द्वितीयं पर्व । ततस्ते निर्गतं धर्म जिनवक्रारविंदतः। श्रुत्वा हर्ष परं जग्मुस्तिर्यक् त्रिदशमानवाः ॥ १९५ ॥ अणुव्रतानि संप्राप्ताः केचित्केचिन्निरंबरं । तपश्चरितुमारब्धाः संसारोद्विग्नमानसाः ।। १९६ ॥ सम्यग्दर्शनमायाताः केचित्केचित्स्वशक्तितः । विरतिं जगृहुः पापसमुपार्जनकर्मतः॥ १९७॥ श्रुत्वा धर्म जिनं स्तुत्वा प्रणम्य च यथाविधि । धर्मसुस्थितचित्तास्ते याताःस्थानं यथायथं १९८ श्रेणिकोपि महाराजो राजमानो नृपश्रिया । धर्मश्रवणहृष्टात्मा प्रविवेश निजं पुरं ॥ १९९ ॥ अथ तीर्थकरोदारतेजोमंडलदर्शनात् । विलक्ष इव तिग्मांशुरस्तमैच्छनिषेवितुं ॥ २० ॥ अस्ताचलसमीपस्थसरोसहरुचामिव । मणीनां किरणैश्छन्नो जगामात्यंतशोणतां ॥ २०१॥ अमंदायंत किरणा नित्यमस्यानुयायिनः । कस्य वा तेजसो वृद्धिः स्वामिन्यापदमागते ॥२०२॥ ततो विलोचनैः साभैरीक्षिताः कोकयोषितां । अदर्शनं ययौ मंदं कृपयेव विरोचनः ॥२०३॥ धर्मश्रवणतो मुक्तो यो रागः प्राणिनां गणैः । संध्याछलेन तेनैव ककुभां चक्रमाश्रितं ॥२०४॥ उपकारे प्रवृत्तोयमस्मान्स्वप्रार्थितः परं । इतीव चक्षुर्लोकस्य मित्रेणेव समं गतं ॥ २०५॥ व्रजतो दिननाथस्य रागं प्रलयगामिनं । संकुचंत्यरविंदानि कवलैरिवगृह्णने ॥ २०६ ॥ समीकृतततोत्तुंगं निरूपणविवर्जितं । ततः प्रकटतामारदुर्जनस्येव चेष्टितं ॥ २०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org