________________
पद्मपुराणम् ।
द्वितीयं पर्व । तत्र लब्धेषु पापेषु शवरादिषु जायते । आर्यदेशेपि संप्राप्ते दुःकुलेषपजायते ॥ १६९॥ लब्धेपि सुकुले काणकुंठादितनुसंभवः । संपूर्णकायबंधेपि दुर्लभा हि निरोगता ॥ १७०॥ एवं सर्वमपि प्राप्य प्रशस्तानां समागमं । दुर्लभो धर्मसंवेगो विषयास्वादलोभतः ॥ १७१ ॥ ततः केचिद्दतिं कृत्वा जठरस्यापि पूरणं । कुर्वतेत्यंतदुःखेन दूरतो विभवोद्भवः ॥ १७२ ॥ रक्तकर्दमवीभत्सं शस्त्रसंपातभीषणं । केचिद्विशति संग्रामं जिह्वाकामवशीकृताः ॥ १७३ ॥ अनंतजंतुसंबंधं कृत्वान्ये भूमिकर्षणं । कुटुंबभरणं क्लेशात्कुर्वति नृपपीडिताः॥ १७४ ॥ एवं यद्यत्प्रकुर्वति कर्मसौख्याभिलाषिणः । तत्र तत्र प्रपद्यते जंतवो दुःखमुन्नतं ॥ १७५ ॥ अवाप्यापि धनं क्लेशाचौराग्निजलराजतः । पालयन् परमं दुःखमवाप्नोत्याकुलः सदा ॥१७६॥ संप्राप्त रक्षितं द्रव्यं भुजानस्यापि नो शमः । प्रतिवासरसं वृद्धगर्भाविपरिवर्तनात् ॥ १७७ ॥ प्राप्नोति धर्मसंवेगं कथंचित्पूर्वकर्मतः । संसारपदवीमेव नीयतेन्यैर्दुरात्मभिः ॥ १७८ ।। अन्यैस्ते नाशिताः संतो नाशयंत्यपरान् जनान् । धर्मसामान्यशब्देन सेवमानाः परस्परं॥१७९॥ कथं चेतोविशुद्धिः स्यात्परिग्रहवतां सतां । चेतो विशुद्धिमूलाच तेषां धर्मे स्थितिः कुतः॥१८०॥ यावत्परिग्रहासक्तिस्तावत्प्राणिनिपीडनं । हिंसा च संमृतेर्मूलं दुःखं संसारसंज्ञकं ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org