________________
पद्मपुराणम् ।
द्वितीयं पर्व
पाक्यापाक्यतया मावसस्यवत्म विभागतः । भव्याभव्यद्वयेनात्र जीवार्थः परिकीर्तितः ॥ १५६ ॥ धर्माधर्मादिभिर्भेदैर्द्वितीयो भिद्यते पुनः । सेत्स्यंतो गदिता भव्या अभव्यास्तु ततोन्यथा १५७ जिनदेशिततत्त्वानां श्रद्धाश्रद्धानमेतयोः । लक्षणं तत्प्रभेदाश्च पुनरेकेद्रियादयः ।। १५८ ।। गत्या कायैस्तथा योगे वेदै र्लेश्याकषायतः । ज्ञानदर्शनचारित्रैर्गुणश्रेण्यधिरोहणैः ॥ १५९ ॥ निसर्गशास्त्रसम्यक्त्वैर्नामादिन्यासभेदतः । सदाद्यष्टानुयोगैश्च भिद्यते चेतनः पुनः ॥ १६० ॥ तत्र संसारिजीवानां केवलं दुःखवेदिनां । सुखसंज्ञावमूढानां तत्रैव विषयोद्भवे ।। १६१ ।। चक्षुषः पुटसंकोचो यावन्मात्रेण जन्यते । तावंतमपि नोकालं नारकाणां सुखासनं ॥ १६२ ॥ दमनैस्ताडनैर्दोहवाहादिभिरुपद्रवैः । तिरवां सततं दुःखं तथा शीतातपादिभिः ।। १६३ ॥ प्रियाणां विप्रयोगेन तथानिष्टसमागमात् । ईप्सितानामलाभाच्च दुःखं मानुषगोचरं ॥ १६४ ॥ यथोत्कृष्टसुराणां च दृष्ट्वा भोगं महागुणं । च्यवनाच्च परं दुःखं देवानामुपजायते ।। १६५ ।। तत्र दुःखावनद्धेषु चतुर्गतिगतेष्विति । कर्मभूमिं समासाद्य धर्मोपार्जनमुत्तमं ॥ १६६ ॥ मनुष्य भावमासाद्य सुकृतं ये न कुर्वते । तेषां करतलप्राप्तममृतं नाशमागतं ॥ १६७ ॥ संसारंपर्यटन् जंतुर्बहुयोनिसमाकुलं । मनुष्यभावमायाति चिरेणात्यंतदुःखतः ॥ १६८ ॥
Jain Education International
२२
For Private & Personal Use Only
www.jainelibrary.org