SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। द्वितीय पर्व। ततो मगधराजापि निश्चक्राम महाबलः । संपतत्सुरसंघातजातविस्मयमानसः ॥ १४३ ॥ दूरादेव हि संत्यज्य वाहनादिपरिच्छदं । स्तुतिपूर्व जिनं नत्वा स्वदेशे समुपाविशत् ॥ १४४ ॥ अक्रूरो वारिषेणोथ कुमारोऽभयपूर्वकः । विजयवाह नामाच तथान्यनृपसूनवः ॥ १४५ ॥ स्तुतिं कृत्वा प्रणामं च मस्तकन्यस्तपाणयः । उपविष्टा यथादेशं दधाना विनयं परं ॥ १४६ ॥ वैडूर्यविटपस्याधो मृदुपल्लवशोभिनः । पुष्पस्तवकभाजालव्याप्ताशस्य विलासिनः ॥ १४७ ॥ कल्पपादपरम्यस्य जनशोकापहारिणः । हरिद्धनपलाशस्य नानारत्नगिरेरिव ॥ १४८ ॥ अशोकपादपस्याधो निविष्टः सिंहविष्टरे । नानारत्नसमुद्योतजनितेंद्रायुधोद्मे ॥ १४९ ॥ दिव्यांशुकपरिच्छन्ने मृदुस्पर्शमनोहरे । अमरेंद्रशिरोरत्नप्रभोत्सर्पिविघातिनि ॥ १५० ॥ त्रिलोकेश्वरताचिन्हछत्रत्रितयराजिते । सुरपुष्पसमाकीर्णे भूमिमंडलवार्तनि ॥ १५१॥ यक्षराजकरासक्तचलच्चामरचारुणि । दुंदुभिध्वनितोद्भूतप्रशांतप्रतिशब्दके ॥ १५२ ॥ गतित्रयगतप्राणिभाषारूपविवृतया । घनाघनघनध्वानधीरनिर्घोषया गिरा ॥ १५३ ॥ परिभूतरविद्योतप्रभामंडलमध्यगः । लोका येत्य वदद्धर्म पृष्टो गणभृता जिनः ॥ १५४ ॥ सत्तैका प्रथमं तत्त्वं जीवाजीवौ ततः परं । सिद्धाः संसारवंतश्च जीवाश्च द्विविधाः स्मृताः १५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy