SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वितीयं पर्व । प्रवर्तितस्त्वया पंथा विमलः सिद्धगामिनां । कर्मजालं च निर्दग्धं ज्वलितध्यानवन्हिना ॥१३०॥ निर्बधूनामनाथानां दुःखामिपरिवर्तिनां । बंधुर्नाथश्च जगतां जातोसि परमोदयः ॥ १३१ ॥ कथं कुर्यास्तव स्तोत्रं यस्यांतपरिवर्जिताः । उपमानेन निर्मुक्ता गुणाः केवलिगोचराः ॥१३२॥ इति स्तुतिं प्रयुज्यासौ विधाय च नमस्कृतिं । मूर्द्धजानुकरांभोजमुकुलप्राप्तभूतलः ॥ १३३ ॥ विस्मयं प्राप्तवान् दृष्ट्वा स्थानं तज्जैनपुंगवं । इति यस्य समासेन कथ्यते रूपवर्णनं ॥ १३४ ॥ इंद्रस्य पुरुषैरस्य प्राकारत्रितयं कृतं । नानावर्णमहारत्नसुवर्णमयमुत्तमं ॥ १३५ ॥ प्रधानाशामुखैस्तुंगैर्महावापीसमन्वितैः । चतुर्भिर्गोपुरैर्युक्तं रत्नछायापटैर्वृतैः ॥ १३६ ॥ आवृतं तेन तत्स्थानमष्टमंगलकान्वितं । वचसां गोचरातीतामदधकामपि श्रियं ॥ १३७॥ तत्र स्फटिकभित्त्यंगा विभागा द्वादशाभवन् । प्रादक्षण्यपथत्यक्तप्रदेशसमवस्थिताः॥ १३८॥ तस्थुरेकत्र निर्ग्रथा गणनाथैरधिष्ठिताः । अन्यत्रसेंद्रपत्नीकाः कल्पवासिसुरांगनाः॥१३९॥ अपरत्राधिकासंघो गणपालीसमन्वितः । ज्योतिषां योषितोन्यत्र वैयंतार्याः परत्र च ॥ १४०॥ एकत्र भावनस्त्रीणामन्यत्र ज्योतिषां गणः । व्यंतराणां गणोन्यत्र गणोन्यत्र च भावनः॥१४१॥ कल्पवासिन एकस्मिन्नपरत्र च मानुषाः । वैरानुभवनिर्मुक्तास्तिर्यंचोन्यत्र सुस्थिताः ॥ १४२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy