SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ रित्तीयं पर्व । कर्णतालसमासक्तसमीपालक्ष्यशंखकं । वमंतभिव पानां वनान्यरुणतालुना ॥ ११७॥ दलंतमिव दर्पण श्वसंतमिव शौर्यतः । मदान्मूर्छामिवायांतं मुद्यतमिव यौवनात् ॥ ११८ ॥ स्निग्धं नखप्रदेशेषु परुषं रामगोचरे । सच्छिष्यं विनयावाप्तौ परमं गुरुमानने ॥ ११९ ॥ मृदुमूर्द्धानमत्यंतदृढं परिचयग्रहे । दीर्घमायुषि हस्वत्वं दधंतं स्कंधबंधने ॥ १२० ॥ दरिद्रमुदरे नित्यं प्रवृत्तं दानवम॑नि । नारदं कलहप्रीतौ गरुडं नागशासने ॥ १२१ ॥ प्रदोषमिव राजंतं चारुनक्षत्रमालया । महाघंटाकृतारावं रक्तचामरमंडितं ॥ १२२ ॥ सिंदारुणितोत्तुंगकुंभकूटमनोहरं । पारावतं समासाद्य प्रावर्तत सुराधिपः ॥ १२३ ॥ प्राप्तश्च सहितो देवैरारूढनिजवाहनैः । जिनेंद्रदर्शनोत्साहफुल्लाननसरोरुहैः ॥ १२४ ॥ कमलायुधमुख्याश्च नभश्चरजनाधिपाः । संप्राप्ताः सहपत्नीकाः नानालंकारधारिणः ॥ १२५ ॥ ततस्तुष्टाव देवेंद्रो वचसाश्चर्यमीयुषा । गुणैरवितथैर्दिव्यैरत्यंतविमलैरिति ॥ १२६ ॥ त्वया नाथ जगत्सुप्ते महामोहनिशागतं । ज्ञानभास्करबिंबेन बोधितं पुरुतेजसा ॥ १२७ ॥ नमस्ते वीतरागाय सर्वज्ञाय महात्मने । यतोद्य दुर्गमं कूलं संसारोदन्वतः परं ॥ १२८ ॥ भवता सार्थवाहेन भव्यचेतनवाणिजाः । यास्यति वितनुस्थानं दोषचौरैरलुंटिताः ॥ १९९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy